पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१५५

पुटमेतत् सुपुष्टितम्
145
श्लेषसरः (२८)

क्ते च' इति मेदिनी । विरचितं शुभं मङ्गळं येन तत्तथोक्तं यत् रक्षोवैरियशः दैत्यारिकीर्तिः तत् स्तौतीति तथोक्तः जगन्मङ्गळभगवद्दिव्ययशोविषयकप्रबन्धप्रणेता । पराशरव्यासादिवदिति भावः । स्तौतेः क्विपि तुक् । पक्षे विरचिता शुभानां कल्याणानां रक्षा शुभा वा रक्षा येन स तथोक्तः । विशिष्य जगत्क्षेमङ्कर इत्यर्थः । भिन्नं पदम् । वैरिणां यशः तुदतीति तथोक्तः । तुदतेः क्विप् । भवेत् । अत्र यौतियुध्यतोः वेत्तिविध्यत्योः यशश्शब्दोपपदकस्तौतितुदत्योश्च क्विपि सारूप्यमितीदृशप्रकृत्योस्सुप्प्रकृत्यपेक्षयोः श्लेषः । उत्तरार्धे पदश्लेषोऽपि ॥

 यथावा--

 त्वदभिमुखो भवमुक्स्यात्त्वद्विमुखश्चापि पन्नगनगेन्दो । उभयोरपि महती रुक्प्रभवत्यनयोरितीदमाश्चर्यम् ॥ ९०७ ॥

 त्वदभिमुखः त्वद्विमुखश्चापि भवमुक् भवं संसारं मुञ्चतीति तथोक्तः । मुचेः क्विप् 'चोः कुः' इति कुत्वम् । पक्षे-- भवे संसारे भवेन वा मुह्यतीति तथोक्तः । मुहेः क्विपि 'वा द्रुहमुहष्णुहष्णिहाम्' इति हस्य वैकल्पिकं घत्वं, जश्त्वचर्त्वे । अनयोरुभयोरपि महती रुक् रुचि दीप्तिः 'स्युः प्रभारुग्रुचिः' इत्यमरः । रुचेर्दीप्त्यर्थकात्क्विप् । पक्षे रुक् रोगः “स्त्री रुग्रुजा च' इत्यमरः । रुजेः क्विप् । उभयत्र जश्त्वचर्त्वे । अत्र भवशब्दोपपदकयोर्मुञ्चतिमुह्यत्योः केवलयो रुचिरुज्योश्च क्विपि सारूप्यमिति प्रकृतिश्लेषः ॥

 यथावा--

 ALANKARA II
19