पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१५६

पुटमेतत् सुपुष्टितम्
146
अलंकारमणिहारे

 भवपाशबन्धमुडिति त्वां त्वत्तोऽन्यं च नाथ निगदामः । जानात्यनेकधातुप्रकृतिज्ञोऽन्ते बुधस्तदाकूतम् ॥ ९०८ ॥

 हे नाथ! त्वां त्वदन्यं चतुर्मुखादिकं च भवपाशबन्धमुडिति निगदामः । विविधश्लेषवक्तारो वयमिति भावः । तदाकूतं उभयत्र तादृशशब्दप्रयोगाभिप्रायं तु अन्ते निर्णयावसरे अनेकधा बहुप्रकारेण निस्सन्दिग्धमिति भावः । प्रकृतिं जगत्कारणभूतं परं ब्रह्म भवबन्धनिदानभूतां मूलप्रकृतिं च जानातीति प्रकृतिज्ञः ‘प्रकृतिर्गुणसाम्ये स्यादमात्यादिस्वभावयोः । योनौ लिङ्गे पौरवर्गे' इति मेदिनी । योनिः कारणम् । लिङ्गं चिह्नं 'प्रकृतिर्या मयाऽऽख्याता’ इत्यादौ मूलप्रकृताविव ‘वासुदेवः परा प्रकृतिः, प्रकृतिश्व प्रतिज्ञादृष्टान्तानुपरोधात्' इत्यादौ प्रकृतिशब्दो हि जगत्कारणेऽपि प्रयुक्तः । यद्वा-- प्रकृतिं तव त्वदन्यस्य च स्वभावं जानातीति तथोक्तः । भवपाशच्छेत्तृत्वं तव स्वभावः । भवपाशमुग्धत्वं त्वदन्यस्येति जानन्निति भावः । अथवा अनेके बहवः ये धातवः धातारः तत्तदण्डान्तर्वर्तिनश्चतुर्मुखाः तेषां प्रकृतिः कारणं ‘यो ब्रह्माणं विदधाति पूर्वम्' इत्यादिश्रुतिभ्यः । धातुशब्दो धाञ्धातोः ‘सितनिगमिमसिसिच्यविधाञ्क्रुशिभ्यस्तुन्' इत्यौणादिकतुन्प्रत्ययेन निष्पन्नतया उदन्तः 'धातुप्रसादान्महिमानमात्मनः' इत्यत्र व्यासार्यैरेवमेव निष्पादितः ॥

 पक्षे-- अन्ते भवपाशबन्धमुडित्यत्रावसाने विद्यमानाः अनेके ये धातवः ‘मुट आक्षेपप्रमर्दनयोः, मुष स्तेये, मुह वैचित्ये'