पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१९

पुटमेतत् सुपुष्टितम्
9
परिकराङ्कुरसरः (२७)

 यथा वा--

 तव नामसहस्रस्य स्तवनाय रमे स एक एवालम् । भुवनाधीश्वरि पुरुषः पवनाशनपरिषदग्रणीरथवा ॥

 स पुरुषः ‘सहस्रशीर्षा पुरुषः’ इति प्रथितः परमः पुमान् एक एव तव स्तवनाय अलं समर्थः । अथवा पवनाशनपरिषदग्रणीः भुजगकुलधौरेयश्शेषः अलमिति योजना । अत्र पुरुषः पवनाशनपरिषदग्रणीरिति विशेष्यद्वयं सहस्रशीर्षत्वाभिप्रायगर्भितं सत् लक्ष्मीसहस्रनामस्तवनसमर्थतारूपवाच्यार्थपरिकरतां प्रतिपद्यते । पूर्वेषूदाहरणेषु चतुर्षु एकमेव विशेष्यं साभिप्रायं, इह तु विशेष्यद्वयं तदप्येकाभिप्रायकम् ॥

 यथा वा--

 न हि तादृश्यभिमन्यौ विहिता भवताऽऽर्तिभाजि शतमन्यौ । द्विरदे यादृक्करुणा वरदेह वदामि किं भवन्तमहम् ॥ ८१६ ॥

 अत्र अभिमन्यौ शतमन्यौ इति विशेष्यद्वयं भागिनेयत्वेन भ्रातृत्वेन तत्रापि योगमहिम्ना अतिवेलदैन्यवत्त्वेन चावश्यादरणीयत्वं, द्विरदे इति विशेष्यं वन्यत्वेनाननुबन्धितया उपेक्षणीयत्वं, वरदेति विशेष्यं तु अविवेचितस्वपरवरदानेन मुग्धतमत्वं चाभिव्यञ्जयतीति चत्वारि विशेष्याणि भिन्नाभिप्रायगर्भाणीति पूर्वस्माद्विशेषः । अनुबन्ध्यपेक्षया अननुबन्धिन्येव त्वया परिपूर्णा कृपा व्यधीयतेति इह वदामि किं भवन्तमहमिति वाक्येनोपालम्भो द्योतितः ॥

 ALANKARA II
2