पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२०९

पुटमेतत् सुपुष्टितम्
199
अप्रस्तुतप्रशंसासरः (२९)

इति प्रत्यगात्मपरमात्मनोश्शेषशेषिभावज्ञानस्यैव सत्ताहेतुतोक्तेरिति भावः ॥

 पक्षे-- सदुत्तमशब्दः अन्तरेण मध्ये भवः विद्यमानः सुप्सुपेति समासः । यः दुः दुवर्णः तेन ऊनः न्यूनः न भवति । तस्मिन् शब्दे दुवर्णश्रवणात् । अथ यदाकदाचिदिति भावः । तादृशः दुवर्णेन ऊनो भवन्नपि सत्तम एव सत्तमशब्द एवेति वर्ण्यते । सदुत्तमशब्दे दुवर्णोत्सारणे तथा निष्पत्तेः । अत्राप्रस्तुतेन प्रपन्नजनसंसारदुःखविधुरतादिवर्णनेन तत्कारणस्य भगवच्चरणारविन्दप्रपदनस्य महिमोत्कर्षः प्रत्याय्यते । नात्रोपमानोपमेयावलम्बी कविकल्पितः कार्यकारणभावः, किंतु स्वाभाविकः ॥

 यथावा--

 लक्ष्मीक्षणभेदवशाद्दीनेशोऽपि च दिनेश इव भायात् । अथ च दिनेशो भजते दीनेशत्वं किमत्र विशयेन ॥ ९६६ ॥

 लक्ष्म्याः ईक्षणभेदवशात् कटाक्षान्वयवशात् दीनेशः पूर्वं दरिद्रसार्वभौमोऽपि दिनेश इव सहस्रभानुरिव भायात् । अथच किंच दिनेशः भास्वानपि लक्ष्म्याः ईक्षणभेदवशात् कटाक्षव्यतिरेकवशात् दीनेशत्वं भजते । अत्र विशयेन संशयेन किम् । पक्षे हे लक्ष्मि! दीनेशोऽपि दीनेशशब्दोऽपि ईक्षणभेदवशात् ईवर्णस्य इवर्णत्वेन दर्शनवशात् दिनेश इव भायात् । दिनेशशब्दतया प्रकाशेत । इवशब्दो वाक्यालंकारे । इवर्णस्य ईवर्णत्वेनेक्षणे तु दिनेशशब्दो दीनेशशब्दतां भजत इत्यर्थः । अत्र दीनेशदिनेशयोर्दिनेशत्वदीनेशत्वप्राप्तिरूपकार्येणाप्रस्तुतेन तत्का-