पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२११

पुटमेतत् सुपुष्टितम्
201
अप्रस्तुतप्रशंसासरः (२८)

भवनेष्विव श्रीनिवासकटाक्षेणोन्मिषितां निरवधिकां संपदं वीक्ष्य तन्निमित्ते केनचिदनुयुक्ते भगवत्प्रसादरूपं तन्निमित्तमनभिधाय दिदृक्षमाणाः फणिशैलं याता इति तत्कारणमभिहितमितीयमपि कारणनिबन्धनाऽप्रस्तुतप्रशंसैवेत्यलं दूरधावनेन । प्रकृतमनुसरामः ॥

 सामान्ये प्रस्तुते विशेषवचनं यथा--

 छायाफलमसृणस्तरुरायासं लोकतस्समायाति । शाकोटकं तु लोके काकोलूकादिकोऽपि नाकाङ्क्षेत् ॥ ९६९ ॥

 अत्र श्रीनिवासं प्रति त्वादृशो महौदार्यादिगुणनिधिरेव स्वाभीप्सितफलप्रेप्सुभिरायास्यते । गुणलेशवन्ध्यस्तु दूरीक्रियत एव सर्वैरिति सामान्ये कथनीये तत्प्रत्यायनायाप्रस्तुतो विशेषोऽभिहित इतीयं विशेषनिबन्धना ॥

 यथावा--

 कल्पतरुं श्रयतां न ह्यल्पतराऽपीप्सितानवाप्तिस्स्यात् । इति जानन्मतिमांश्चेत्क्षितिजानन्यान्किमर्थमाश्रयताम् ॥ ९७० ॥

 अत्रापि श्रीनिवासतुल्यं महावदान्यमाश्रयतां न कदाचिदप्यभीष्टार्थानवाप्तिरिति जानानो बुद्धिमांश्चेत्किमर्थमन्यान्मितंपचानाश्रयतामिति सामान्ये वक्तव्ये तदवगमनार्थमप्रस्तुतो विशेषोऽभिहितः । क्षितिजान् तरून् भूमिष्ठान् मनुजांश्चेत्यर्थः ॥

 ALANKARA II
26