पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२१५

पुटमेतत् सुपुष्टितम्
205
अप्रस्तुतप्रशंसासरः (२८)

 यथावा--

 सारघमम्ब भवत्या वचनात्स्वमवरमवेत्य साघमभूत् । नेयाद्यदि तु तथाऽघं सारं स्यादेव कोऽत्र संदिग्धाम् ॥ ९७५ ॥

 हे अम्ब! सरघाभिः कृतं सारघं मधु कर्तृ । तेन कृते इत्यर्थे 'संज्ञायाम्' इत्यण् ‘सरघा मधुमक्षिका' इत्यमरः । स्वं आत्मानं भवत्याः वचनात् अवरं निहीनं, पक्षे अवधूतः रः रेफो यस्मात्तत्तथाभूतं रेफविहीनमित्यर्थः । ‘प्रादिभ्यो धातुजस्य' इति धूतशब्दलोपः । अवेत्य ज्ञात्वा अघेन दुःखेन सह वर्तत इति साघं अभूत् । श्रीवचनापेक्षया स्वस्य निहीनतां विज्ञाय दुःखितमभवदित्यर्थः । 'अंहोदुःखव्यसनेष्वघम्' इत्यमरः । पक्षे सारघमिति पदं रेफावधूननेन साघमिति निष्पन्नमित्यर्थः । यदि तु तथा उक्तप्रकारेण अयं नेयात् न प्रप्नुयात् तर्हि सारं श्रेष्ठं रसवदित्यर्थः । स्यादेव । न नीरसं स्यादिति भावः । पक्षे घं इतिच्छेदः । तथा एवं घं घवर्णं नेयाद्यदि सारमेव स्यात् सारघपदं घवर्णापनयने सारमित्येव निष्पद्येतेति भावः । अत्र सर्वातिशायि श्रीवचनमाधुर्यमिति सामान्ये वक्तव्ये मधुनीरसत्वरूपविशेषवचनम् ॥

 विशेषे प्रस्तुते सामान्यवचनं यथा--

 कर्मज्ञानोपासनमर्मज्ञा ये स्वयं कृतार्थास्ते । आकिंचन्यैकधना विना कृपां ते कथं भवन्ति जनाः ॥ ९७६ ॥