पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२५९

पुटमेतत् सुपुष्टितम्
249
व्याजस्तुतिसरः (३२)

प्रसिद्धव्याजस्तुत्युदाहरणेष्वप्यप्रस्तुताभ्यां निन्दास्तुतिभ्यां प्रस्तुते स्तुतिनिन्दे गम्येते इत्येतावता व्याजस्तुतिमात्रमप्रस्तुतप्रशंसा स्यात्' इति दीक्षिताः ॥

 अन्ये तु-- प्रसिद्धस्थले ‘कस्स्वर्धुनि विवेकस्ते, साधु दूति पुनस्साधु’ इत्यादौ स्तुतिनिन्दयोरेकधर्मत्वादप्रस्तुतप्रशंसायास्तत्रासंभवेन व्याजस्तुतेर्विविक्तविषयत्वसाम्राज्यान्न व्याजस्तुतिमात्रमप्रस्तुतप्रशंसा भविष्यति । प्रस्तुतधर्मिकेऽप्यप्रस्तुतप्रशंसाऽभ्युपगमे तु तस्मिन्नेव विषये ललितालंकारपार्थक्याभ्युपगमो व्याहतस्स्यादित्याहुः ॥

 भिन्नविषयत्वे निन्दया स्तुत्यभिव्यक्तिर्यथा--

 अपदत्रयमितलोकैरवामपादाम्बुपूतजगतीकैः । अलमन्यसुरवराकैरनमृतदानक्षमैरलक्ष्मीकैः ॥

 अत्र देवतान्तरनिन्दया श्रीनिवासस्तुत्यभिव्यक्तिः ॥

 स्तुत्या निन्दायाः निन्दया स्तुत्या वाऽभिव्यक्तौ समानविषयतायां प्रागेवोदाहरणानि प्रादर्शिषत ॥

 अन्यस्तुत्याऽन्यस्तुत्यभिव्यक्तिर्यथा--

 क्षेत्रे क्व नु कतिदिवसान्व्यधात्तपो वाऽपि किमभिधानमयम् । यदविरतं त्वत्पदसममरविन्दं विन्दतेऽच्युत मिळिन्दः ॥ १०३९ ॥

 अत्र मिळिन्दस्तुत्या भगवत्पादारविन्दसौन्दर्यसौकुमार्यभोग्यतादिसौभाग्यातिशयस्तुतिर्व्यज्यते ॥

इत्यलंकारमणिहारे व्याजस्तुतिसरो द्वात्रिंशः ॥


 ALANKARA II
32