पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२९०

पुटमेतत् सुपुष्टितम्
280
अलंकारमणिहारे

संख्यातिगाः असंख्याकाः भद्राः गजजातिविशेषाः 'मन्दो भद्रा मृगश्चेति विज्ञेयास्त्रिविधा गजाः’ इत्यनुशासनात् । यद्वा असंख्याकमङ्गळोऽपीत्यर्थः । चतुर्भद्रः चत्वार एव भद्राः भद्राणि वा यस्य स तथोक्त इत्यवधारणगर्भो बहुव्रीहिः ‘अब्भक्षः' इतिवत् । स्फुरतीतीदं चित्रम् । परिहारस्तु— चतुर्भद्रं बलवद्धर्मार्थकाममोक्षरूपं चतुर्भद्रम् । यथोक्तममरसिंहेन "त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गस्समोक्षकैः । सबलैस्तैश्चतुर्भद्रम्" इति । चत्वारि भद्राणि श्रेष्ठान्यस्मिन्निति वा । चतुर्णां भद्राणां समाहार इति वा विग्रह इत्याहुः । अन्ये तु--

वित्तं त्यागसमेतं ज्ञानमगर्वं क्षमान्वितं शौर्यम् ।
भोगस्सङ्गविहीनो दुर्लभमेतच्चतुर्भद्रम् ॥

इत्याहुः । इदं च भारतीयषोडशराजकप्रत्यध्यायश्रूयमाणस्य 'चतुर्भद्रतरस्त्वया' इत्यस्य व्याख्यायां स्पष्टम् । तद्भजतीति चतुर्भद्रभागिति । ‘भद्रश्शिवे खञ्जरीटे वृषभे च कदम्बके । करिजातिप्रभेदे ना क्लीबं मङ्गळमुस्तयोः' इति मेदिनी ॥

 हन्त यदारोपयिता चापं रोपं तदैव चापयिता । हस्तेऽकरोः पुरा सद्वेषक्षितिजश्रियं रघुकुलेन्दो ॥ १०८८ ॥

हे रघुकुलेन्दो! यदा त्वं चापं धनुः रोपयिता रोपं बाणं करोतीति तथोक्त इति विरोधः । रोपशब्दात् ण्यन्तात्त्तृच् । 'पत्री रोप इषुर्द्वयोः' इत्यमरः । आरोपयितेति च्छेदः । अधिज्यं कर्तेति परिहारः । रुहेर्णिचि 'रुहः पोऽन्यतरस्याम्' इति पादेशः तदैव चापारोपणसमय एव रोपं बाणं चापयिता चापं धनुः करोतीति तथोक्त इति विरोधः । च आपयितेति छेदः ।