पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३५७

पुटमेतत् सुपुष्टितम्
346
अलंकारमणिहारे

 हिरण्यस्य विकारो हिरण्मयी तस्यास्संबुद्धिः । हे हरिणि सुवर्णप्रतिमे ! प्रचुरहिरण्ये हरितवर्णे इति वस्तुस्थितिः । ‘वर्णादनुदात्तात्तोपधात्तो नः' इति ङीप् । तत्संनियोगेन नः । ततो णत्वं च ‘हरिणी स्यान्मृगी हेमप्रतिमा हरिता च या' इत्यमरः । हरिणीरूपधारिणीति वा । ‘श्रीर्धृत्वा हरिणीरूपमरण्ये विचचार ह’ इति पुराणादिति विद्यारण्यभाष्यम् । अत्र ‘हिरण्यवर्णां हरिणम्, चन्द्रां हिरण्मयीम्' इति श्रुतिस्स्मर्तव्या । हे भगवति! भवती ईदृशी त्वं क्व । पुरः पूर्वकाय एव न तु सर्वस्मिन्विग्रहे सुवर्णवद्भाना सुवर्णवत् हेमतुल्यं न तु हेमत्वेनैव भानं प्रकाशो यस्यास्सा तथोक्ता, पश्चार्धे अपरभागे पृष्ठभागे इत्यर्थः । ‘अपरस्यार्धे पश्चभावो वक्तव्यः’ इत्यपरशब्दस्य पश्चभावः । रीतिवर्णं रीतिः पित्तलापरपर्यायमारकूटं 'रीतिस्स्त्रियामारकूटम्' इत्यमरः । तस्याः वर्णं आप्तवती । न तु पित्तलमयी वा । इतरा अन्या सुरी देवस्त्री सरस्वती पार्वती शच्यादिश्च क्व वा । तव तस्याश्च रूपलावण्यवैभवादौ महदन्तरमिति भावः । वस्तुतस्तु-- सुरी सुरीशब्दः पुरः आदौ सुवर्णमस्यास्तीति सुवर्णवत् भानं प्रकाशो यस्यास्सा प्रथमं सु इत्याकारकाक्षरघटितेति यावत् । पश्चार्धे अपरस्मिन्नर्धे । सुरीशब्दस्य वर्णद्वयात्मकत्वात्प्रथमस्य वर्णस्य पूर्वार्धत्वं द्वितीयस्योत्तरार्धत्वमिति ध्येयम्। रीतिवर्णं री इत्याकारकमक्षरं आप्तवती प्राप्तेत्यर्थः । अत्र भगवत्याश्श्रियः अन्यदेवललनायाश्चाननुरूपयोर्घटनं । अन्यत्सर्वं पूर्ववत् ॥

 यथावा--

 एकोऽपि न मम सुगुणो नाथ प्रत्युत गुणत्रि-