पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३६३

पुटमेतत् सुपुष्टितम्
352
अलंकारमणिहारे

कबळनात् ग्रसनात् अपनयनादिति तु तत्त्वम् । तपनं तापशालिनं आहारानुरूपमिति भावः । असौत् प्रासूत ‘षु प्रसवैश्वर्ययोः' इति धातोर्लङ् । यद्यपि ‘प्रसवोऽभ्यनुज्ञानम्’ इत्युक्तं, तथाऽपि ‘मातः कद्रु यदि प्रसौति भवती भूयस्सुतानीदृशान्’ इति मुरार्यादिप्रयोगदर्शनात् गर्भविमोचनार्थकताऽप्यस्य प्रसिध्यतीत्यविरोधः ॥

 यथावा--

 तव नयनं ननु भास्वानुदारबृन्दारकं सुतं सूताम् । कथमेष कपिमसावीदा विदितं कपिरिति श्रुतो ह्येषः ॥ ११९० ॥

 ननु भगवन् ! तव नयनं नेत्रभूतः भास्वान् भानुः । अनेन तेजस्वित्वमुक्तम् । उदारश्चासौ बृन्दारकश्च महारूपवन्तं उत्तमं देवं वा । पक्षे वदान्यमुख्यं कर्णमित्यर्थः 'उदारो दातृमहतोः, बृन्दारकौ रूपिमुख्यौ’ इति चामरः । सुतं सूतां जनयतु । महातेजस्विनो भानोस्तादृशसुतप्रसूतिरनुरूपैवेति भावः । एषः ईदृश एव भास्वान् कपिं तिर्यञ्चं जातिवृत्तरूपादिभिरतिनिहीनमिति भावः । सुग्रीवमिति वस्तुस्थितिः । कथं असावीत् प्रासूत । सौतेर्लुङ् । अतिमात्रविसदृशप्रसूतिर्विरुद्धेति प्रश्नः । समाधत्ते-- आ इति । आ इति स्मरणार्थकमव्ययं, 'आ प्रगृह्यः स्मृतौ' इत्यमरः । विदितं इदानीं स्मृतमित्यर्थः । हि यस्मात् एषः भास्वानेव कपिरिति श्रुतः श्रुतिप्रतिपादितः । तस्मात्कपिमसावीदिति कार्यकारणसारूप्यपरिचिन्तनेन समाधानं ‘कपिर्बभस्ति तेजनम्, इति श्रुतिर्भानुं कपिशब्दवाच्यं ब्रूते । कं जलं