पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३६८

पुटमेतत् सुपुष्टितम्
357
विषमालङ्कारसरः (४०)

अन्ततः मध्ये 'अन्तोऽस्त्री निश्चये नाशे स्वरूपेऽग्रेऽन्तिकेऽन्तरे' इति रत्नमाला । गकारौकारयोरन्तराळे इति भावः । विधुतः उत्सारितवर्ण इति यावत् । अत एव अलसत्तां लस्य लवर्णस्य सत्ता स्थितिः न लसत्ता अलसत्ता लवर्णस्थित्यभावं प्राप्य गौरेव गौरिति शब्द एवाभूत् । उक्तरीत्या लकारोत्सारणे तथा निष्पत्तेरिति भावः । अत्रापीष्टानवाप्त्यनिष्टप्राप्ती पूर्ववत् ॥

 यथावा--

 लतिकास्त्वत्तनुतुलनाकुतुकादभ्येत्य जननि तद्विधुताः । मुखवर्णविपर्यासात्तिलका भूत्वा वनान्तभुवमगमन् ॥ ११९५ ॥

 हे जननि! अल्पाः लताः लतिकाः, अल्पार्थे विहितेन कना लतानामतिसौकुमार्यं व्यञ्जितम् । त्वत्तनुलतातुलनाकुतुकात् अभ्येत्य अभिमुखमागत्य तद्विधुताः त्वत्तन्वा न्यक्कृताः अत एव मुखवर्णस्य वदनशोभायाः विपर्यासात् पराभवलक्षणवैवर्ण्यादित्यर्थः । पक्षे मुखवर्णयोः आदिमाक्षरयोः ल ति इत्येतयोः वैपरीत्यात् प्रातिलोम्यात् तिलकाः वृक्षविशेषाः भूत्वा ‘तिलकः क्षुरकः' इत्यमरः । अनेन लतावस्थावस्थितसौकुमार्यस्यापि हानिर्द्योत्यते । पक्षे उक्तरीत्या लतिकाशब्दस्तिलका इति निष्पन्न इत्यभिप्रायः । वनान्तभुवं अगमन् कस्यापि वदनं दर्शयितुमनीशानाः क्वापि गहनान्तरे न्यलीयन्तेति भावः । सर्वं पूर्ववत् ॥

 यथावा--

 हरिनन्दकधुततेजास्स्वरुर्विधून्वन् शिरस्स्व-