पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३८९

पुटमेतत् सुपुष्टितम्
378
अलंकारमणिहारे

 एषूदाहरणेषु प्रायेणोपमामूलकत्वं अप्रस्तुतप्रशंसागर्भत्वं श्लेषोत्तम्भितत्वं च द्रष्टव्यम् । एवमिष्टानवाप्त्यनिष्टप्राप्त्युभयकृता उत्पत्तिलक्षणसंसर्गस्याननुरूपता सामान्यतो दर्शिता । पूर्वोक्तचतुर्विधभेदाया इष्टानवाप्तेः पूर्वोक्तत्रिविधभेदेनानिष्टेन संसृष्टौ इयमेव द्वादशविधा भवति । तत्र स्वस्य सुखसाधनवस्त्वनवाप्तिदुःखसाधनवस्तुप्राप्तिरूप उभयभेदस्तावदुदाहृतः ॥ स्वस्य दुःखसाधनवस्त्वनिवृत्तिदुःखान्तरसाधनावाप्तिरूपद्वयं यथा--

 तरळत्वं विजिहासुर्द्युमणिस्तव हारमध्यरत्नत्वम् । प्राप्यापि न तदहासीत्परंतु तत्रास बत वृषाद्रिमणे ॥ १२२३ ॥

 द्युमणिः तरणिः स्वर्लोकरत्नमित्यपि गम्यते । तरळत्वं स्वस्य चापल्यं षिद्गत्वं वा भास्वरत्वमिति तु वस्तुस्थितिः । 'तरळं चञ्चले षिद्गे भास्वरेऽपि त्रिलिङ्गकम्' इति मेदिनी । विजिहासुः तव हारमध्यरत्नत्वं प्राप्यापि तत् तरळत्वं नाहासीत् नात्याक्षीत् । पुनरपि तरळत्वमेवापद्यतेत्यर्थः । हारमध्यगत्वात्तरळसंज्ञो बभूवेति वस्तुस्थितिः । परंतु तत्रास त्रासाख्यं मणिदोषमवाप्सीत् बिभायेति वा अर्थः। 'त्रासो भीमणिदोषयोः ' इति विश्वः। पक्षे तत्र आस इति च्छेदः । तत्र हारमध्ये । आस दिदीपे इत्यर्थः । ‘अस दीप्तौ’ लिट् । अत्र द्युमणेस्तरलत्वरूपदुःखसाधनवस्तुनिवृत्त्युद्यमात्तदनिवृत्तिः त्रासरूपदुःखान्तरसाधनावाप्तिश्च निबद्धा । इदमेवानर्थपरिहारार्थरूपेष्टार्थसमुद्यमात्तदनवाप्तिरनिष्टान्तरप्राप्तिश्चेति व्यवह्रियतेऽन्यत्र ॥ श्लेषभित्तिकाभेदाध्यवसायोत्तम्भितमिदम् ॥

 परस्य दुःखसाधनप्रापणरूपेष्टार्थसमुद्योगात्तदनवाप्तिः स्वस्य दुःखसाधनप्राप्तिरित्युभयं यथा--