पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३९७

पुटमेतत् सुपुष्टितम्
386
अलंकारमणिहारे

र्णाक्षेपनिर्वादपरिवादापवादवत्' इत्यमरः । बहुहान्या उदितावर्णमिति वा । पक्षे बहु हा इति च्छेदः । अग्रे मुखभागे बहु यथा तथा न्युदितं न्युना न्यु इति वर्णसमुदायेन दितं छिन्नं निरस्तमिति यावत् । तादृशं अवर्णं अकारो यस्य तत् न्युदितावर्णं ‘दितं छितं वृक्णम्' इत्यमरः । न्युब्जं रुजाभग्नं अभूत् । ‘भुजन्युब्जौ पाण्युपतापयोः' इति निपातनात्साधुः । ‘न्युब्जो रुजाभुग्ने' इत्यमरः । अब्जपदं न्युब्जमिति निष्पन्नमिति वस्तुस्थितिः । हा इति खेदे । शिष्टं स्पष्टम् ॥

 यथावा--

 त्वच्चक्रमंशुमाली चिच्छादयिषुस्स्वरोचिषाऽभ्येत्य । कलितो निरंशुकस्तन्महसा माली भवन् हतस्तेन ॥ १२३६ ॥

 तन्महसा चक्रतेजसा । निरंशुकः अपहृतवसनः निर्गळितकिरण इति च । पक्षे अंशुशब्दविघटितश्च कलितः माली तन्नामा महादैत्यः भवन्, अंशुमालिशब्दः अंशुशब्दविघटिततया मालीत्यवशिष्ट इत्यर्थः । स्पष्टमन्यत् ॥

 यथावा--

 मालूरफलं श्रीकुचजयफलमभिलष्य तदनुलूनमरम् । माफलमित्यभिधावद्वाच्यं लिपितस्तथाऽनुशिष्टमभूत् ॥ १२३७ ॥

 मालूरस्य बिल्वस्य फलं श्रीकुचजयरूपं फलं प्रयोजनं अभिलष्य अपेक्ष्य अरं द्रुतं तदनुलूनं ताभ्यां कुचाभ्यां अ-