पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४२४

पुटमेतत् सुपुष्टितम्
413
विषमालङ्कारसरः (४०)

 हे जननि! ये तव जनाः त्वद्भक्ताः । वै इति प्रसिद्धौ । तरण्यतीतेः सूर्यातिक्रमं प्राप्य भानुमण्डलभेदनपूर्वकमिति भावः । हरिं वासुदेवं दिदृक्षन्ते द्रष्टुमिच्छन्ति ‘ज्ञाश्रुस्मृशां सनः’ इति तङ् । तान् जनान् जात्वपि तरण्यतीतेः हरिं न दर्शयसि वै । इदं विचित्रम् । वैतरण्यतीतेरिति समस्तं पदम् । वैतरण्याः यमपुरद्वारतरङ्गिण्याः अतीतेः हरिं यमं न दर्शयसीति परिहारः । ‘दृशेश्च' इति द्विकर्मकत्वम् । अत्र श्रीभक्तानामिष्टालाभमात्रं श्लेषेण दर्शितम् ॥

 यथावा--

 आश्रित्यानन्तपदं तपत्वधश्शीर्षमेव तदपि रमे । भविता यथापुरं न तु तव पदरुचि जन्म भानुभा भजते ॥ १२७० ॥

 भानुभा रविप्रभा । अनन्तपदं भगवच्चरणं अन्तरिक्षस्थानं च आश्रित्य तपतु तपश्चरतु तापं भजतु च । यथापुरमेव भविता भानुभैव भवेत् । न तु त्वच्चरणप्रभात्मना जन्म भजते । भानुभाशब्दो विलोमत्वेऽपि भानुभेत्येव संपद्यते न त्वन्यामानुपूर्वीं लभते । अत्र भानुभाया लक्ष्मीचरणप्रभात्मना जन्म प्रेप्सोरधश्शीर्षं भगवच्चरणे तपश्चर्ययाऽपि तदलाभमात्रं निबद्धम् । श्लेषपूर्वरूपसंकीर्णम् ॥

 यथावा--

 ननु कालिकाऽखिलाम्ब त्वत्कबरीजन्म लब्धुमिच्छन्ती । अथ यद्यधश्शिरास्स्यात्तदाऽपि सा कालिकैव न तु कबरी ॥ १२७१ ॥