पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४६३

पुटमेतत् सुपुष्टितम्
452
अलंकारमणिहारे

सि आविलतां कलुषतां, पक्षे अन्तरा अविलतां इति छेदः । विगतो लकारो यस्य तत् विलं न विलं अविलं तस्य भावः अविलता तां अविलतां, अन्तरा मध्ये अविलतां लकारसा हित्यमित्यर्थः । एत्य जघन्यजं शूद्रवर्णजं ‘वृषलाश्च जघन्यजाः' इत्यमरः । पक्षे जघन्यः अन्त्यः जः जकारो यस्य तत्तथोक्तं आसीत् । नैतावदेवास्य फलमित्याह--ईदृक्षस्येति । त्वत्पदविद्वेषिण इत्यर्थः । अन्त्यजत्वं चण्डालत्वमपि उचितमेव । 'यो विष्णुं सततं द्वेष्टि तं विद्यादन्त्यरेतसम्’ इत्युक्तेरिति भावः । पक्षे अस्य जलजपदस्य अन्त्यः अन्तिमः जः जकारो यस्य तत्तथोक्तं तस्य भावः अन्त्यजत्वमपीत्यर्थः । जघन्यजान्त्यजशब्दयोरस्मिन् पक्षे तुल्यार्थकत्वादिति भावः । अत्र भगवत्पदविद्वेषस्य जघन्यजत्वादेश्चानुरूपस्संसर्गो निन्दापर्यवसायी ॥

 यथावा--

 ऐरावणस्तवाग्रैरहितत्वमुपेत्य रघुवर यशोभिः । अलभत बत रावणतां तावकविद्वेषिणोऽस्य युक्तमिदम् ॥ १३२७ ॥

 हे रघुवर! ऐरावणः ऐरावतः अग्रैः परार्थ्यैः तव यशोभिस्सह अहितत्वं धावळ्येन विरोधं उपेत्य प्राप्य रावणतां अलभत । पक्षे–- ऐरावणशब्दः अग्रैरहितत्वं इति समस्तं पदम् । अग्रः प्रथमः ऐ इतिवर्णः तद्रहितत्वं उपेत्य रावणतामलभत तथा निष्पन्न इत्यर्थः । तावकविद्वेषिणः त्वदीयवस्तुविषयकद्वेषशालिनः अस्य ऐरावतस्य इदं युक्तम् । अत्र रघुवरयशोविद्वेषरावणतावाप्त्योरानुरूप्यम् ॥