पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४७१

पुटमेतत् सुपुष्टितम्
460
अलंकारमणिहारे

 मालूरस्य बिल्वस्य फलं 'बिल्वशाण्डिल्यशैलूषमालूरश्रीफला अपि’ इत्यमरः। श्रियः कुचावेव फले तयोश्शेषत्वं तदतिशयाधित्सयोपादेयस्वरूपत्वं तस्य प्रेप्सया वल्लूरस्य शुष्कमांसस्य ‘उत्तप्तं शुष्कमांसं स्यात्तद्वल्लूरं त्रिलिङ्गकम्' इत्यमरः भोगः अभ्यवहारः भुजेर्भावे घञि ‘चजोः' इति कुत्वम् । ‘भोगस्तु राज्ये वेश्याभृतौ सुखे । धनेऽहिकायफणयोः पालनाभ्यवहारयोः' इति हेमचन्द्रः । तस्य संत्यागि वल्लूरोपलक्षितनिखिलनिषिद्धाहारत्यजनशालि । आहारशुद्ध्यभावे सत्त्वशुद्ध्यनुदयादिति भावः । अत एव शुद्धं निर्दोषं पवित्रं वा । अतएव माफलशेषं मायाः श्रियः फले फलत्वेनाध्यवसितौ स्तनौ तयोः शेषं शेषभूतं अतिशयाधायकं च सत् स्वाभीप्सितशेषतां लब्धवदिति भावः । स्वर्थं स्वकीयं पुरुषार्थं न मुञ्चति कदाऽपि न त्यजति । नित्यशेषमेव सत् तत्कैंकर्यं समनुभवतीति भावः । पक्षे मालूरफलमिति पदं, शब्दार्थयोस्तादात्म्यम् । श्रीकुचफलशेषत्वप्रेप्सावत् लूरभोगसंत्यागि इति छेदः । उक्तेच्छाविशिष्टं सत् । लूरयोः लूकाररेफयोः भोगः अनुभवः तस्य संत्यागि । उत्सारितलूकाररेफमित्यर्थः । अतएव शुद्धं केवलं यथातथा ‘शुद्धं स्यात्त्रिषु केवले । निर्दोषे च पवित्रे च' इति मेदिनी । माफलशेषं मा फ ला इति त्रयो वर्णाः शेषाः शिष्टाः यस्य तथोक्तं अवशिष्टमाफलरूपवर्णत्रयमित्यर्थः । ईदृशमपीत्युपस्कार्यम् । स्वार्थं श्रीफलरूपं स्वाभिधेयं न मुञ्चति । मालूरफलमिति पदमविकलवर्णं यावन्तमर्थं बोधयति उक्तरीत्या वर्णवैकल्येऽपि तावन्तमेवार्थं बोधयति । मालूरफलमाफलशब्दयोरेकार्थकत्वादिति भावः । माफलं श्रीफलम् । बिल्वस्य श्रीफलत्वं च 'वनस्पतिस्तव वृक्षोऽथ बिल्वः’ इति श्रुतिसिद्धं उदाहृतकोशसिद्धं च । शेषमित्यत्र शिष्यत इति शेषमिति