पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४७२

पुटमेतत् सुपुष्टितम्
461
समालङ्कारसरः (४१)

कर्मणि घञ् अतएव भेद्यलिङ्गता । भावे घञ एव पुल्लिङ्गत्वनियमः । अतएव संबन्धमनुवर्तते’ इति भाष्यम् शेषं रामवत्' इत्यादिप्रयोगाः ‘शेषस्संकर्षणे वधे' इत्युपक्रम्य 'उपयुक्तेतरे न स्त्री' इति मेदिन्यादिकोशाश्च संगच्छन्ते । अत्र मालूरफलस्यानिष्टं विना अभीष्टसिद्धिः ॥

 इमानि सर्वाण्यपि अनिष्टं विना केवलेष्टप्राप्तावुदाहरणानि ॥

 अनिष्टपरिहाररूपेष्टप्राप्तिर्यथा--

 त्वच्छ्रीविद्वेषकृतां घनाघवत्तां घनाघनोधून्वन् । विष्णो पदे तव पतन्नधश्शिराः कल्पते स्म नघनाघः ॥ १३४० ॥

 हे विष्णो! घनाघनः प्रावृषेण्याम्बुवाहः तव श्रियः संपदः रुचेश्च विद्वेषः तेन कृतां तावकश्रीविषयकवैरहेतुकां घनाघवत्तां अविरळदुरितशालितां धून्वन् ‘लक्षणहेत्वोः' इति शता । हेतुरिह फलम् । घनाघवत्ताविधूननेन प्रयोजनेनेत्यर्थः । तव पदे चरणे विष्णोः पदे अन्तरिक्षे इति तत्त्वम् । अधश्शिराः पतन् प्रणिपतन्नित्यर्थः । घनं च तत् अघं च घनाघं, न घनाघं यस्य स नघनाघः नशब्देन बहुव्रीहिः । कल्पते स्म । निरस्तनिखिलकलुषोऽभूदित्यर्थः ।

प्रणम्य कृष्णं सहसा पांसुक्लिष्टे महीतले ।
निष्कल्मषो भवेत्सद्यो ललाटे पांसुमण्डनात् ॥
हरिममरगणार्चिताङ्घिपद्मं प्रणमति यः परमार्थतो मनुष्यः ।
तमपगतसमस्तपापबन्धं व्रज परिहृत्य यथाग्निमाज्यसिक्तम् ॥

इत्यादि प्रमाणसहस्रं स्मर्तव्यम् । पक्षे घनाघनशन्दः घनाघवत्तां घनाघेति वर्णपङ्क्तिर्मत्तां अधून्वन् इति छेदः अविसृ-