पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४७३

पुटमेतत् सुपुष्टितम्
462
अलंकारमणिहारे

जन्नेवेत्यर्थः। अधश्शिराः पतन् विलोमतया स्थित इति यावत् । नघनाघ इति निष्पन्न इति । अत्र घनाघनस्यानिष्टं विना स्वाभीप्सितघनाघरूपानिष्टनिवृत्तिरूपेष्टसिद्धिः ॥

 यथावा--

 स्वजुषां सदा सुमनसां हर्तुमधः प्रसवबन्धनात्पतनम्। त्वद्भुजतामेत्य हरे कल्पतरुर्हरति तद्यदुचितं तत् ॥ १३४१ ॥

 हे हरे! कल्पतरुः सदा स्वजुषां आत्मानं सेवमानानां सुमनसां विदुषां कुसुमानां च । प्रसवबन्धनात् नानायोनिप्रसूतिसंबन्धात् वृन्ताच्च ‘वृन्तं प्रसवबन्धनम्' इत्यमरः । अधःपतनं अधोलोके भ्रंशं अधःप्रदेशे गळनं च । हर्तुं निरसितुं त्वद्भुजतां त्वद्बहुरूपतां एत्य तत् सुमनसां प्रसवबन्धानदधःपतनं हरतीति यत् तदुचितम् । अत्र सुमनसां प्रसवबन्धनादधःपतनरूपानिष्टपरिहारलक्षणेष्टार्थोद्योगात्कल्पतरोरनिष्टं विना तत्सिद्धिः । सर्वाण्यप्येतान्युदाहरणानि श्लेषाभेदाध्यवसायसंकीर्णान्येव ॥


 किंच यत्रातर्कितोत्कटानिष्टसद्भावेऽपि श्लेषवैभवेनेष्टार्थत्वप्रतिपत्तिस्तत्रापि समालंकारो न प्रतिहन्यते । यथा--

 श्रीवशगव्यामोहे भगवन्मा मुक्तमातनु त्वमिति । त्वामासेवे त्वमपि च तथैव मामुक्तमाचरंस्तनुषे ॥ १३४२ ॥

 हे भगवन् ! श्रीवशगः लक्ष्मीवशंवदः व्यामः यस्य 'व्यामो बाह्वोस्सकरयोस्ततयोस्तिर्यगन्तरम्' इत्यमरः । यथासंभवमाश्लेषार्थं स्वेस्वे पार्श्वे प्रसारितयोर्बाह्वोरन्तरं लक्ष्मीवशंवदं