पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४७४

पुटमेतत् सुपुष्टितम्
463
समालङ्कारसरः (४१)

यस्य स तथोक्त इत्यर्थः । त्वं अनेन पुरुषाकारसान्निध्यबलादवधीरितविनतजनतापराधतया रक्षणौन्मुख्यं द्योतितम् । मा मां अनन्वादेशे वैकल्पिकत्वादत्र मादेशः । मुक्तं शिथिलितभवबन्धं आतनु कुरु । यद्वा श्रीवशगः संपन्मूलकः यो व्यामोहः अतिमात्रवैचित्त्यं तस्मिन् । अथवा श्रीवशगेति भगवत एव संबोधनम् । व्यामोहे पुत्रकळत्रसंपदादिप्रयुक्तसंमोहे आमुक्तं बद्धं ‘आमुक्तः प्रतिमुक्तश्च' इत्यमरः । मा तनु मा कुरु । माशब्दोऽयं न तु माङ्, येन लुङेव स्यात् । इति त्वां आसेवे त्वमपि मामुक्तं आचरन् सन् तथैव तनुषे यथाप्रार्थनमेव कुरुषे इति स्तुतिः । श्रीवशगव्यामोहे मा मां आमुक्तं बद्धमेव तनुषे इत्युपालम्भः । इदं मुक्तैश्वर्यप्रेप्सया श्रीनिवासं सेवमानस्य आनुषङ्गिकीं तद्विश्राणितामैहिकीमामुष्मिकीं च संपदमपि तत्परिपन्थिनीं जानतः कस्यचित्प्रपन्नस्य ते प्रत्युपालम्भवचनम् । अत्र यद्यपि व्याजस्तुतौ स्तुत्या निन्दाभिव्यक्तिविवक्षायां विषमालङ्कारः । न चैहिकामुष्मिकविभवस्यानिष्टत्वायोगान्न विषमालंकार इति वाच्यं, मुमुक्षुदृष्ट्या तस्यानिष्टतायाः ‘एते वै निरयास्तात स्थानस्य परमात्मनः' इत्युक्तेः अनेन वचनेनामुष्मिकसंपद एव निरयप्रायत्वस्य वर्णनादैहिकसंपदस्तथात्वं कैमुत्यन्यायसिद्धम् । तथाऽपि प्राथमिकस्तुतिरूपवाच्यविवक्षायां समालंकारो न निवार्यते ॥

 यथावा--

 सुतरामुक्तिविदूरा संपत्स्यादिति समाश्रितोऽहं त्वाम् । सुतरामुक्तिविदूरा तथैव संपत्त्वयाऽच्युत वितीर्णा ॥ १३४३ ॥