पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४८६

पुटमेतत् सुपुष्टितम्
475
अधिकालंकारसरः (४३)

 अगणितवैभवेति भगवतो विशेषणम् । भवदीयं यश इति कर्मधारयः । भवदीयानां भागवतानां यश इति षष्ठीतत्पुरुषो वा । अथवा अगणितवैभवेति भवदीयानां भवदीययशसो वा विशेषणम् । ब्रह्माण्डानां मण्डलं बृन्दं तन्निभात् तद्व्याजात् । स्फुटमन्यत् ॥ अत्राधारेभ्यो ब्रह्माण्डमण्डलेभ्योऽप्याधेयस्य भागवतयशस आधिक्यम् । अत्राप्याधेयं यश एव । आधारोऽपि ब्रह्मण्डमण्डलमेव । कैतवापह्नुतिगर्भितत्वं विशेषः ॥

द्वितीयाधिकम्

 आधाराधिक्यकथनमाधेयाद्विपुलाच्च तत् ॥

विपुलादाधेयादप्याधारस्याधिक्यवर्णनं च तत् अधिकमेवेत्यर्थः ॥

 यथा--

 कियदेतन्मम चेतः स्फीतं वातंधयाचलनिकेतम् । श्रीवासं सविकासं जगदावासं निवासयत्यन्तः ॥ १३६४ ॥

 स्फीतं विपुलमिति यावत् । सविकासं असंबाधं यथातथा । अत्राखिलजगदावासभूतश्रीनिवासरूपाधेयादन्याधारभूतस्य चेतस आधिक्यं निबद्धम् ॥

 यद्वा--

 मन्ये माधव संप्रति मनो ममालं महाद्भुतविशालम् । सर्वेभ्यो ज्यायानपि लोकेभ्यो यत्र माति परमात्मा ॥ १३६५ ॥

 मम मनः महाद्भुतविशालमिति मन्ये । तत्र हेतुमभिप्रयन्नाहसर्वेभ्य इति । यत्र यस्मिन्मनसि अणुरूपे इति भावः । सर्वेभ्यो