पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/५०९

पुटमेतत् सुपुष्टितम्
498
अलंकारमणिहारे

 द्रमिडानां निवासो जनपदः द्रमिडाः । ‘सोऽस्य निवासः' इत्यणो ‘जनपदे लुप्' इति लुपि युक्तवल्लिङ्गवचने ॥ अत्राद्ये पूर्वपूर्वस्य भीष्मादेरुत्तरोत्तरगङ्गादिकं प्रति विशेषणभावः । द्वितीये लक्ष्म्यादेर्भगवदादिकं प्रतीति ध्येयम् ॥

इत्यलंकारमणिहारे एकावळीसर एकोनपञ्चाशः.


 अत्रेदमवधेयम्-- अस्मिंश्चैकावळ्या द्वितीयभेदे पूर्वपूर्वैः परस्य परस्योपकारः क्रियमाणो यद्येकरूपरस्यात् तदा अयमेव मालादीपकतया व्ययह्रियते प्राचीनैः । यथाच लक्षितं तैः--

 मालादीपकमाद्यं चेद्यथोत्तरगुणावहम् ।

इति । आद्यं दीपकमित्यर्थः । तत्र मालाशब्देन शृङ्खलोच्यते । दीपकशब्देन दीप इवेति व्युत्पत्त्या एकदेशस्थं सर्वोपकारकमुच्यते । तेनैकदेशस्थसर्वोपकारकक्रियादिशालिनी शृङ्खलेति पदद्वयार्थः । एवं च दीपकालंकारप्रकरणे प्राचीनैरस्य लक्षणाद्दीपकविशेषोऽयमिति न भ्रमितव्यं, तस्य सादृश्यगर्भतायास्सकलालकारिकसंप्रतिपन्नत्वात् । इह च शृङ्खलावयवानां पदानां सादृश्यमेव नास्तीति कथंकारं दीपकतावाचोयुक्तिं श्रद्धधेमहि, तेषां प्रकृताप्रकृतात्मकत्वविरहाच्चेत्याहुः ॥ वस्तुतस्तु-- एकस्यैव धर्मस्य वाक्यान्तरेष्वप्यन्वयमात्रेण दीपकसादृश्याद्दीपकमित्यनुपदमेव वक्ष्यमाणरीत्या विच्छित्तिविशेषसद्भावात्मालादीपकस्य पृथगलंकारतैव युक्ता । अन्यथा शृङ्खलारूपालंकारभेदानां कारणमालादीनामपि यत्किंचिद्विच्छित्तिविशेषशालितया पृथगलंकारताभ्युपगमोऽप्ययुक्त एव स्यादिति परे । अत एव सर्वस्वकृताऽप्यस्मिन्नेव प्रकरणे अयमलंकारः पृथग्लक्षितः 'पूर्वपूर्वस्योत्तरोत्तरगुणावहत्वे मालादीपकम्' इति ।