पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/५५

पुटमेतत् सुपुष्टितम्
45
श्लेषसरः (२८)

 अत्र परब्रह्मणश्श्रीनिवासस्य परब्रह्मशब्दस्य च प्रकृताप्रकृतयोः श्लेषः । तथाहि-- हे परब्रह्मन् ! कश्चित् अस्थिरहृदय इति भावः । त्वयि विषये सुप्रत्ययं विजातीयप्रत्ययानन्तरिततया शोभनं अनवरतभावनात्मकं ज्ञानं उपासनमित्यर्थः । लुम्पति चेत् विच्छिनत्ति चेत् कामं लुम्पतु विच्छिनत्तु अन्तरयत्वित्यर्थः । ततः प्रत्ययलोपात् ननु भगवन्! तव यदाकदावा । नलोपोवेत्यत्र विद्यमानो वाशब्दो भिन्नक्रमः कश्चिदित्यत्रान्वेति । कश्चिद्वा लोपः हानिः न भविता । यदि यःकश्चित् त्वद्ध्यानविच्छेदं कुर्यात्ततस्तवाखिलहेयप्रत्यनीकानन्तकल्याणगुणैकतानस्य तत्कृता न काचिदपि हानिस्संभवेत् प्रत्युत तस्यैव । ‘यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं भवति । तत्त्वेव भयं विदुषोऽमन्वानस्य'

यन्मुहूर्तं क्षणं वाऽपि वासुदेवो न चिन्त्यते ।
सा हानिस्तन्महच्छिद्रं सा भ्रान्तिस्सा च विक्रिया ॥

इति श्रुतिस्मृतिदर्शितं भयं भविष्यतीति भावः ॥

 पक्षे-- हे परब्रह्मन्निति शब्दस्यैव संबोधनम् । कश्चित् शब्दविदिति भावः । त्वयि परब्रह्मशब्दे त्वयि सुप्रत्ययं परब्रह्मन्निति संबोधनवशात्ससंबुद्धिसुप्रत्ययमित्यर्थः । लुम्पति चेत् 'स्वमोर्नपुंसकात्’ इति सूत्रेणेति भावः । लुम्पतु कामं लुप्यात् । ततः लोपात् यदाकदावा यस्मिन्कस्मिन्नपिवा काले नलोपः नकारलोपः वा भविता विकल्पेनैव भविता । न तु राजन्नित्यादौ नान्तपुल्लिङ्गशब्द इव सर्वथा न भवितैवेति भावः । ‘संबुद्धौ नपुंसकानां नलोपो वा वक्तव्यः' इति नान्तनपुंसकलिङ्गशब्दसंबुद्धौ विकल्पेन नकारलोपानुशासनात् । अयं वक्ष्यमाणावज्ञालङ्कारगर्भित इति ध्येयम् ॥