पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/७१

पुटमेतत् सुपुष्टितम्
61
श्लेषसरः (२८)

 अन्यत्र-- इह बृंहतिपरभूमनि नः अत् भवति प्रकृतिसङ्गतः नुमतः ब्रह्मणि न रः तथा अत्वेन उः स्यात् न अपि अत्र वशि कृति इडितता इति पदच्छेदः । बृंहतिपरभूमनि बृंहतिः बृहिधातुः ‘बृहि वृद्धौ” इति भ्वादौ पठितः । श्तिपा निर्देशोऽयम् । तस्मात् परभूः परत्र विद्यमानः मन् मन्नित्याकारकप्रत्ययो यस्य तस्मिन् बृंहतेर्मनिन्प्रत्ययेन निष्पन्ने इत्यर्थः । ब्रह्मणि ब्रह्मशब्दे प्रकृतिसंगतः प्रकृतौ मन्प्रत्ययप्रकृतिभूते बृंहेति धातौ संगतः संबद्धः नुमतः अततीत्यतः अततेस्सातत्यगमनार्थकाद्भौवादिकात् एचाद्यच् । नुमः अतः नुमतः बृहिधातोरिदित्वात् 'इदितो नुम् धातोः' इति विहितनुमागमात्प्राप्त इत्यर्थः । नः नकारः अत् भवति । बृहिधातोर्नुमो नकारः ‘तपरस्तत्कालस्य’ इति शाब्दिकसंकेतितो ह्रस्वोऽकारो भवतीत्यर्थः । 'सर्वधातुभ्यो मन्’ इत्यतो मन्नित्यस्यानुवृत्तौ ‘बृंहेर्नोऽच्च’ इत्यौणादिकसूत्रेण नुमो नकारस्य अत्त्वविधानादिति भावः । तथा एवमेव । अत्त्वेन नुमो नकारस्याकारादेशेन । उः बकारोत्तरवर्तिऋकारस्य । ऋशब्दात् ङसि ‘ऋत उत्' इत्येकादेशे उत्वे रपरत्वे ‘रात्सस्य' इति सलोपे रेफस्य विसर्गः । रः रेफः न स्यादिति न इति योजना । स्यादेवेत्यर्थः । बृ अ इति स्थिते ‘इको यणचि’ इति ऋकारस्य यणादेशविधानादिति भावः । अत्र एवं निष्पन्ने ब्रह्मन्शब्दे वशि वश्प्रत्याहारघटकमवर्णादौ कृति कृत्प्रत्यये इडितताऽपि इडागमयुक्तताऽपि न स्यादिति पदद्वयमेवावर्त्यते । न स्यात् न भवेदित्यर्थः । ‘नेड्वशिकृति’ इतीण्निषेधात् । एवं सुदुष्करतमस्यास्य पद्यस्यार्थो ब्रह्ममीमांसाशब्दनयनिपुणतमैस्सहृदयैर्विपश्चित्समुदयैस्सदयैस्सावधानं सूक्ष्मया दृशा विभावनीयः ॥