पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/८७

पुटमेतत् सुपुष्टितम्
77
श्लेषसरः (२८)

एकस्मिन् सप्रकारकब्रह्मरूपभोग्ये भोक्तृत्वेन ब्रह्मणा सह युज्यत इति सयुक् तेन तथोक्तेन प्रायेण भवितव्यम् । नात्र सन्देग्धव्यमिति भावः 'सोऽश्नुते सर्वान्कामान्सह । ब्रह्मणा विपश्चिता’ इति श्रुत्यर्थोऽत्रानुसन्धेयः ॥

 नन्वेवं सायुज्यशब्दस्य सार्ष्टिताशब्दस्य च ‘एतासामेव देवताना ्ँ सायुज्य ्ँ सार्ष्टिताम्’ इत्यादिश्रुतिषु सहप्रयोगोऽनुचितस्स्यात् आर्ष्टिर्ह्यशनं भोग इति समानार्थकत्वादुभयोरिति चेदुच्यते । सायुज्यं नाम उभयोर्भोक्तव्ये विशेषाभावः । सार्ष्टिस्तु भोगस्य तरतमभावाभावः । यथाऽनुगृहीतं परिपूर्णब्रह्मानुभवाधिकारे श्रीमदाचार्यैः--

सायुज्यमुभयोरत्र भोक्तव्यस्याविशिष्टता ।
सार्ष्टिता तत्र भोगस्य तारतम्यविहीनता ॥ इति ।

 अन्यत्र-- यः प्रायशब्दः परं परत्र विद्यमानं चित्तं चित्तशब्दं प्रपद्य प्राप्य प्रायश्चित्ती बुभूषति तरां समस्ततया प्रायश्चित्तशब्दो भवितुमिच्छति तराम् । पूर्वं स्वन्तेन सुशब्दस्सुबुपलक्षकः विग्रहदशायां श्रूयमाणसुबन्तेनेति यावत् । तेन प्रायेण प्रायशब्देन अन्ते सयुजा सवर्णयुक्तेन भवितव्यं न तु प्राय इत्यव्ययेन, तस्य 'अव्ययादाप्सुपः' इति सुब्लोपविधानेन सर्वदाऽप्यश्रूयमाणसुब्विभक्तिकत्वात्, स्वत एव सान्ततया अन्ते सयुजेति विधानस्यानावश्यकत्वाच्च । ‘प्रायस्य चित्तिचित्तयोः' इति प्रायशब्दस्यैव ह्यस्कारो विधीयते । स्वतस्सिद्धेऽपि प्रायशब्दस्य सुबन्तत्वे स्वन्तेनेति विशेषणमुक्तविशेषार्थद्योतनायैवेति ध्येयम् । अन्यत्सर्वमव्यवहितपूर्वोदाहरणे निरूपितम् ॥