पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१६७

पुटमेतत् सुपुष्टितम्
155
ललितसरः (६८)

 यथावा--

 क्वाहं भवमरुपान्थः क्व च तव सायुज्यनित्यसाम्राज्यम् । इत एवाच्युत सहसा सुमेरुशृङ्गाग्रमभवमुत्पित्सुः ॥ १६७० ॥

 अत्र भवमरुपान्थ एव सन्नहं दुरासदत्वदीयनित्यसाम्राज्यप्रेप्सुरस्मीति प्रस्तुतव्यवहारं विषयं कण्ठरवेणाप्रतिपाद्यैव तत्प्रतिबिम्बभूतः दुरारोहं सुमेरुशृङ्गाग्रमित एकोत्पातेनैवाधिष्ठातुमिच्छामीति विषय्युपनिबद्धः । विषयोपादाने तु निदर्शनैव ॥

 यथावा--

 मादृङ्मितवचनः क्व त्वादृङ्निगमागणेयसुगुणः क्व । भूमिष्ठ एव कल्पकसुमनिचयं निखिलमपचिचीषामि ॥ १६७१ ॥

 अत्रापि मितंपचमतिरहं निगमापरिच्छेद्यभगवदनन्तकल्याणगुणविवक्षुरस्मीति विषयमकथयित्वैव भूमिष्ठ एव सकलकल्पतरुकुसुमान्यपचिचीषामीति विषय्येव निबद्धः ॥

 यथावा--

 यद्यपि नाहं पात्रं हृद्यतमाया हरे तव कृपायाः । उन्मर्याद उदन्वानुत्सर्पति चेदमुं निरुन्ध्यात्कः ॥ १६७२ ॥

 अत्रापि त्वं नीचेऽपि मयि निरर्गळकृपाप्रसरश्चेदपर्यनुयोज्यस्वातन्त्र्यवैभवं त्वां को नाम निरोद्धुमीष्टामिति बिम्बभूतवा-