अपाङ्गतरळे दृशौ तरळवक्रवर्णा गीरो
विलासभरमन्थरा गतिरतीव कान्तं मुखम् ।
इति स्फुरितमङ्गके मृगदृशां स्वतो लीलया
तदत्र न मदोदयः कृतपदोऽपि संलक्ष्यते ॥
इति प्राचीनपद्ये तन्मीलितोदाहरणे 'धनुषि रवावुषसि हरिम्’ इत्यास्माकीने पद्ये च स्वरूपतिरोधानस्थले स्वरूपतो ज्ञायमाने वस्तुद्वये सादृश्याद्भेदाग्रहणे मीलितमिति लक्षणे अभ्युपगम्यमाने अलंकारान्तरेण भाव्यम् । सादृश्याद्भेदाग्रहणमित्येतावन्मात्रं मीलितमिति लक्षणाङ्गीकारे मीलितावान्तरभेदेन भाव्यमिति ध्येयम् । सर्वमिदं कुवलयानन्दे स्पष्टम् ॥
इत्यलंकारमणिहारे सामान्यसरस्त्र्यशीतितमः.
अथोन्मीलितसरः (८४)
स्फूता समानगुणयोर्भेदस्योन्मीलितं विदुः ।
गुणसाम्येन भेदानध्यवसाये प्राप्ते केनापि निमित्तेन भेदस्फूर्तौ मीलितप्रतिद्वंद्वि उन्मीलितम् ॥
यथा--
तीरे विहृतिजुषस्तव पूरे गात्रद्युतेस्सरति शौरेः । तन्मिलितां द्युमणिसुतां शैशिर्येणैव जानते गोप्यः ॥ १८४७ ॥