यथा--
वज्रशिलावालाञ्चितमरकतकलतारुणाश्मपल्लविते । सह महिला विहरन्ते गृहनिवहे त्वत्कटाक्षिताश्शौरे ॥ १९५५ ॥
इदं समृद्ध्युदाहरणम् । अत्रासंभाव्यमानविभूतियुक्तानां भगवत्कटाक्षितानां वर्णनाल्लक्षणसंगतिः । संभाव्यमानविभूतियुक्तस्य वर्णने तु नायमलंकारः ॥
यथा--
परिखचितवज्ररेखास्फुरितमहानीलजालचारुतमाः । सतटिज्जलदभ्रमदा वृषशिखरिणि भान्ति ते विहारगृहाः ॥ १९५६ ॥
अत्र हि महाविभूतेर्भगवतो विहारगृहाणां वस्तुत एव संभवतीदृशविशेषः । अत एवास्य कविप्रतिभोत्थापितत्वमुक्तम् । एवंचास्य नामापि सार्थकमिति विमर्शिनीकारः ॥
श्लाघ्यचरितस्योपलक्षकत्वे यथा--
जयतु स शैलो यत्र त्यक्तास्त्रं केनचिन्निमित्तेन । श्रीवासमब्जचक्रे यतिराजो ग्राहयामास ॥
यतिराज भगवद्रामानुजाचार्यः । केनचिन्निमित्तेन तोण्डमान्नृपाय रिपुविजयकृते वितीर्णयोश्शङ्खचक्रयोः पुनस्तद्वरदानावसरे अर्चारूपेऽस्मिन्पुनश्शङ्खचक्रधारणरूपतत्प्रार्थनलक्षणेन निमित्तेन त्यक्तास्त्रं त्यक्तशङ्खचक्रं भगवन्तं श्रीनिवासं शङ्खचक्रे ग्राहयामास । ‘अजग्रहत्तं जनको धनुस्तत्' इतिवद्द्विकर्मकता । अत्र--