कीर्त्यत्युक्तिर्यथा--
त्वदुपाश्रितजनसमुदययशःपयोराशिवीचिविक्षुभिताः । ब्रह्माण्डालाबुगणा निमज्जनोन्मज्जनैः प्रविलुठन्ति ॥ १९६६ ॥
इयं कीर्त्यत्युक्तिः । नन्वतिशयोक्तितोऽस्याः को भेद इति चेत् अतिशयोक्तावसदुक्तिमात्रं, अत्युक्तौ तु अतथ्यस्याद्भुतेति विशेषणादत्यन्तासदुक्तिरिति जानीहि । अतएव दण्डिना--
अनयोरनवद्याङ्गि स्तनयोर्जृम्भमाणयोः । |
इति । स्तनयोरतिपीवरत्ववर्णनं लोकसिद्धमित्येतादृशविशेषाख्यानेन उत्कर्षकथनेन अलंकृततया कान्तं रमणीयमेव भवतीत्युक्त्वा--
लोकातीत इवात्यर्थमध्यारोप्य विवक्षितः । |
इत्यभिधाय--
अल्पं निर्मितमाकाशमनालोच्यैव वेधसा । |
इत्यत्युक्तेरतिशयोक्तितो वैलक्षण्यं दर्शितम् ॥
ननु च । उदात्तालंकारादत्युक्तेः को भेदः ‘वज्रशिलावाल' इत्यादिप्रागुपदर्शिततदुदाहरणे कविप्रतिभामात्रगोचरतया असंभावितायास्समृद्धेर्वर्णनेन वैलक्षण्याभावादितिचेत् अत्राहुः--'संप-