पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/८३

पुटमेतत् सुपुष्टितम्
71
काव्यार्थापत्तिसरः (६१)

 अत्राभावेनाभावापादनम् । प्रकृतादप्रकृतस्यापाद्यमानस्य न्यूनत्वं च ।

 यथावा--

 क्षमयाऽप्यसमधिगम्ये रमया हरिहृदयसदनया साम्ये । इतरासां महिषीणां सुतरां वार्ताऽपि तस्य दूरतरा ॥ १५४० ॥

 अत्राप्यभावेनाभावापादनम् । प्रकृतादप्रकृतस्य न्यूनता च ॥

 अप्रकृतेन प्रकृतस्यापादनं यथा--

 अधिजलधि निमज्जन्तं मधुसूदन मन्दरं तमुदधार्षीः । भवजलधौ प्लवमानं मामुद्धर्तुं कियान्प्रयासस्ते ॥ १५४१ ॥

 अत्राप्रकृतात्तथाविधमज्जन्मन्दरोद्धरणवृत्तान्तात् प्रकृतस्यापततो भवजलधिप्लवमानोद्धरणस्य न्यूनता । किंच आपततः पुनरर्थान्तरस्योपादानानुपादानाभ्यां संभवत्यस्या वैचित्र्यम्। तत्रापततोऽर्थस्योपादाने उदाहरणानि दर्शितानि ॥

 अनुपादाने यथा--

 वरुणालयधरणीगतमणयोऽपि क्वचन गणयितुं शक्याः । फणिगिरिमणेस्तु सुगुणा गणयितुममुनैव नैव शक्यास्स्युः ॥ १५४२ ॥

 अमुनैव श्रीनिवासेनैव । अत्र श्रीनिवासादन्येषां का कथेत्यापतदर्थान्तरमनुपात्तम् ॥