पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२३

पुटमेतत् सुपुष्टितम्
15
अनुमानसरः (११३)

गवन् भवदीयजने जानन्ति कृतास्पदां जना भक्तिम् ॥ २०२४ ॥

 इमे जनाः भगवति भक्तिमन्तः सामोदबाष्पपूरादिमत्वादिति प्रयोगः ॥

 यथावा--

 यद्धर्माम्बुनिषिक्ते क्षेत्रे पुलकाङ्कुराः प्रहृष्यन्ति । तन्मन्येऽस्याश्शौरौ हृदयतटाकोऽनुरागरसपूर्णः ॥ २०२५ ॥

 क्षेत्रमेव क्षेत्रमिति श्लिष्टरूपकं गात्ररूपकेदारमित्यर्थः । तस्मिन् 'क्षेत्रं शरीरे केदारे' इति मेदिनी । अत्र स्वेदाम्बुनिषिक्तक्षेत्राधिकरणकप्रहृष्टपुलकाङ्कुरत्वेन हेतुना व्रजललनायाः भगवद्विषयकानुरागरसपरिपूर्णहृदयतटाकवत्वानुमानम् । प्रयोगस्तु-- इयं शौरिविषयकानुरागरसपरिपूर्णहृदयतटाका स्वेदाम्बुनिषिक्तप्रहृष्टस्वक्षेत्राधिकरणकपुलकाङ्कुरवत्त्वादित्यादिः । आद्ये पद्यद्वये लिङ्गलिङ्गिनोश्शुद्धत्वं, इह तु रूपकानुप्राणितत्वमिति वैलक्षण्यम् । कविप्रतिभोन्मीलितत्वं तु व्यक्तमेव । इह यत्र लिङ्गलिङ्गिनोस्सत्त्वं तत्र जानन्ति मन्ये शङ्के जाने नूनं अवैमि इत्यादिपदानामनुमितिबोधकत्वं, यत्र तु सादृश्यादिनिमित्तसद्भावः तत्रोत्प्रेक्षाबोधकत्वमिति विवेकः ।

 यथावा--

 जडिमाऽपसर्पति यथा यथा च महती स्फुरत्यशोकश्रीः । शङ्के तथा ह्यमीषां साधूनां माधवोऽन्तरुल्लसति ॥ २०२६ ॥