पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१०

एतत् पृष्ठम् परिष्कृतम् अस्ति
काव्यमाला ।

वक्रोक्तिजीवितकारः पुनर्वैदग्ध्यभङ्गीभणितिस्व​भावां बहुविधां वक्रोक्तिमेव प्राधान्यात्काव्यजीवितमुक्तवान् । व्यापारस्य प्राधान्यं च काव्यस्य प्रतिपेदे । अभिधानप्रकारविशेषा एव चालंकाराः। सत्यपि त्रिभेदे प्रतीयमाने व्यापाररूपा भणितिरेव कविसंरम्भगोचर: । उपचारवक्रतादिभिः समस्तो ध्वनिप्रपञ्चः स्वीकृतः । केवलमुक्तिवैचित्र्यजीवितं काव्यं, न व्यङ्ग्यार्थजीवितमिति तदीयं दर्शनं व्यवस्थितम् ।

- - - - -

भिन्नकक्ष्याणां ह्युपस्कार्योपस्कारकत्वस्यानुपपत्तेः । तथात्वे चालंकाराणामपि गुणोपस्कार्य​त्वं प्रसज्यते । समानन्यायत्वात् । तद्गुणालंकाराणां तुल्यत्ववादिन एवौद्भ​टाः । इत्थमनेन वाच्याश्रयाणामलंकाराणां मध्य एव ध्वनेरन्तर्भावादभिधाव्यापारगोचर एव ध्वनिर्न पुनस्तद्ग​तिरिक्तः कश्चिद्ध्व​निर्नामेति चिरंतनानां मतमित्युक्तम् । इदानीं यदप्यन्यैरस्य भक्त्यन्तर्भूतत्वमुक्तं तदपि दर्शयितुमाह - वक्रोक्तीत्यादि । वैदग्ध्येत्यनेन वक्रोक्तेः स्वरूपमुक्तम् । यदाह - ‘वक्रोक्तिरेव वैदग्ध्यभङ्गीभणितिरुच्यते’ इति । एवकारोऽन्यस्य काव्यजीवितत्वव्यवच्छेदकः । काव्यजीवितमिति काव्यस्यानुप्राणकम् । तां विना काव्यमेव न स्यादित्यर्थः । यदाह - 'विचित्रो यत्र वक्रोक्तिवैचित्र्यं जीवितायते’ इति । व्यापारस्येति कविप्रतिभोल्लिखितस्य कर्मणः । कविप्रतिभानिर्वर्तितत्वमन्तरेण हि वक्रोक्तिरेव न स्यादिति कस्य जीवितत्वं घटत इति तदनुषक्तमेवास्यात्र प्राधान्यं विवक्षितम् । अतश्च द्वयोः प्राधान्यस्य दुर्योजत्वमत्र नाशङ्कनीयम् । अलंकारा इति । तेनोक्ता इति शेषः । एवकारश्चिरंतनोक्तध्वनिप्रकारविशेषव्यवच्छेदकः । सत्यपीति । सदपि प्रतीयमानमनादृत्येत्यर्थः । व्यापाररूपेति वक्रस्वभावेत्यर्थः । भणितिरित्युक्तिः । कवीति । तत्रैव कविः संरब्ध इत्यर्थः । तत्संरम्भमन्तरेण हि वक्रोक्तिरेव न स्यात् । ननु च प्रतीयमानस्यानादरः किमभावमुखेनान्यथा वा कृत इत्याशङ्कयाह - उपचारेत्यादि । उपचारवक्रतादीनामेव मध्ये ध्वनिरन्तर्भूत इति तात्पर्यार्थः । यदाह - ‘यत्र दूरान्तरेऽन्यस्मात्सामान्यमुपचर्यते । लेशेनापि भवेत्कर्तु किंचिदुद्रिक्तवृत्तिता ॥ यन्मूला सरसोल्लेखा रूपकादिरलंकृतिः । उपचारप्रघानासौ वक्रता काचिदिष्यते ॥' इति । एतामेवोदाजहार च - ‘गैअणं च मत्तमेहं धारालुलिअज्जुणाइं अ वणाइं । निरहंकारमिअङ्को हरन्ति नीलाओ’ अ णिसाओ ॥’ अत्र मदनिरहंकारत्वे औपचारिके इत्युपचारवक्रतादीनामपि ग्रहणम् । एवं सर्वोऽपि ध्वनिप्रपञ्चो वक्रोक्तिभिरेव स्वीकृतः । सन्स्थित एव । यदि परं तस्य प्राधान्यमेव नास्तीत्याह -- केवलमित्यादितदीयमिति । वक्रोक्तिजीवितकारसंब​न्धीत्यर्थः । तदित्थं लक्षणामूलवक्रोक्तिमध्यान्तर्भावाद्ध्व​नेरेव तत्वं प्रतिपादितम् । कैश्चिदप्यस्य


१. ‘किंचित्कर्तु' क. २. ‘गगनं च मत्तमेघं धारालुलितार्जुनानि च वनानि । निरहंकारमृगाङ्का हरन्ति नीलाश्च निशाः ॥' इति च्छाया