पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१००

एतत् पृष्ठम् परिष्कृतम् अस्ति
९६
काव्यमाला ।


आद्ये तु प्रकारद्वये द्वयोरप्यर्थयोर्वाच्यत्वम् । अत एवाह--द्वयोर्वेोपा- दाने इति तृतीयप्रकारविषयत्वेनोक्तम् । ‘विशेष्यस्यापि साम्ये' इति तु शिंष्टप्रकारद्वयविषयम् । क्रमेण यथा-

येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो
यश्चोद्वृत्तभुजंगहारवलयो गङ्गां च योऽधारयत् ।
यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः
पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः ।
नीतानामाकुलीभावं लुब्धैर्भूरिशिलीमुखैः ।
सदृशे वनवृद्धानां कमलानां तदीक्षणे ।
स्वेच्छोपजातविषयोऽपि न याति वक्तुं
देहीति मार्गणशतैश्च ददाति दुःखम् ।
मोहात्समाक्षिपति जीवनमप्यकाण्डे
कष्टं मनोभव इवेश्वरदुर्विदग्धः ।


अत्र हरिहरयोर्द्वयोरपि प्राकरणिकत्वम् । पद्मानां मृगाणां चोपमान- त्यादप्राकरणिकत्वम् । ईश्वरमनोभवयोः प्राकरणिकाप्राकरणिकत्वम् । एष च शब्दार्थोभयगतत्वेन वर्तमानत्वात्रिविधः । तत्रोदात्तादिस्वरभेदात्प्रयत्न- भेदाच्च शब्दान्यत्वे शब्दश्लेषः । यत्र प्रायेण पदभङ्गो भवति । अर्थश्ले- षस्तु यत्र स्वरादिभेदो नास्ति । अत एव न तत्र सभङ्गपदत्वम् । संकल- नया तूभयश्लेषः । यथा-


यथैवायं ध्वनेर्विषयस्तथैवाद्यमपि भेदद्वयं किं न भवतीत्याशङ्कयाह-आद्य इत्यादि । वाच्यत्वमिति । अत एव न ध्वनेर्विषयः । तस्य वाच्यातिरिक्तस्वरूपत्वात् । तृती- यप्रकारविषयत्वेनेति प्राधान्यादुक्तम् । आद्यस्यापि प्रकारद्वयस्य द्वयोरुपादानसंभवात् । । एष इति त्रिविधोऽपि श्लेषः । तत्रेति त्रयनिर्धारणे । यत्रेति शब्दश्लेषे । अत एवेति स्वरादिभेदाभावात् । संकलनयेति संसभङ्गसभन्नपदसमेिलनया । पृथगिति भेदेन । तत्र शब्दश्लेषो यथा-‘ते गच्छन्ति महापदं भुवि पराभूतिः सैमुत्पद्यते तेषां तैः समलंकृतं निजकुलं तैरेवं लब्धा क्षितिः । तेषां द्वारि नदन्ति वाजिनिवहास्ते भूषिताः प्रत्यहं ये ?


१. 'विशेषत्वेन ख. २. लिष्ट' क. ३. ‘प्राकरणिकत्वात्' क.


१. ‘बैरेवयं स्. २. ‘सभासभङ्गपदभङ्गमैळनया' क. ३. 'सदा दृश्यते ’ ख. ४. ‘तैधापि’ स्त.