पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१०१

एतत् पृष्ठम् परिष्कृतम् अस्ति
९७
अलङ्कारसर्वस्वम्


'रक्तच्छदत्वं विकचा वहन्तो नालं जलैः संगतमादधानाः।
निरस्य पुष्पेषु रुचिं सभग्नां पद्मा विरेजुः श्रमणा यथैव ।


अत्र रक्तच्छदत्वमित्यादावर्थश्लेषः । नालमित्यादौ शब्दश्लेषः । (उभ- यघटनायामुभयश्लेषः ) ग्रन्थगौरवभयात्तु पृथङ्नोदाहृतम् ।

एष च नाप्राप्तेष्वलंकारान्तरेष्वारभ्यमाणस्तबाधकत्वेन तत्प्रतिभोपत्ति हेतुरिति केचित् । ‘येन ध्वस्तमनोभवेन बलिजित्कायः पुरा स्वीकृतः' इत्यादौ विविक्तोऽस्य विषय इति निरवकाशत्वाभावान्नान्यबाधकत्वमि- त्यन्यैः सह संकरः । दुर्बलत्वाभावान्नान्यबाधकत्व(ध्यत्व)मित्यन्ये । तत्र पूर्वेषामयमभिप्रायः । इह प्राकरणिकाप्राकरणिकोभयरूपानेकार्थगोचर-


दृष्टाः परमेश्वरेण भवता तुष्टेन रुष्टेन वा । अत्र पदानां सभङ्गत्वं स्पष्टम्। अर्थश्लेषो यथा - } इच्छन्तौ चिबुकाप्रचुम्बनमथो शैथिल्यशभ्कोज्झितौ नैबिड्येन परस्परस्य न मनाकेनापि लब्धान्तरौ । धन्यौ तौ तरुणीस्तनाविव न यौ स्वप्नेऽपि विश्लिष्यतो विश्लेषं विषमं विधत्य भवतो नाधोमुखौ जातु वा ॥’ अत्र पदानामसभङ्गत्वं स्पष्टम् । संकलनया तु ग्रन्थकृतैवो- दाहृतम् । तदेवंरूपस्यास्य ‘निरवकाशा हि विधयः सावकाशान्विधीन्याधन्ते’ इति नीत्या नि- रवकाशत्वात्सर्वालंकारापवादकत्वं केचिदाहुरित्याह--एष चेत्यादि ।केचिदियुद्भटादयः। केचित्पुनर्विषयवैविक्त्यस्य संभवान्निरवकाशस्वाभावान्नास्य सर्वालंकारापवादकत्वमभ्युपयन्ती- त्याह--येनेत्यादि । अन्या इति मादृशाः। विविक्तोऽस्य विषय इति तुल्ययोगिताया अत्रा- भावात् । सा हि द्वयोरपि प्रकृतयोरप्रकृतयोर्वा विशेष्ययोः पृथगुपादाने औपम्यस्य च गम्यत्वे

  1. भवति । इह तु तदभावः। विशेष्ययोः पृथगनुपादानात् औपम्यस्य च, गम्यत्वाभावात् ।

नह्यत्रोमाधवस्य माधवेन तेन वा तस्य सादृश्यं विवक्षितम् । एकेनैव भेदेन श्लिष्टतयार्थ- द्वयस्य प्रतिपिपादयिषितत्वात् । अत्र हि परस्परनैरपेक्ष्यात्तयोरुमाधववाक्यार्थपरामर्शवे- लायां माधववाक्यार्थपरामर्शमात्रमपि नास्तीति को नामौपम्यस्यावसरः । तस्मादेव- मादावलंकारान्तरविविक्तविषयत्वाच्छुिष्टतायाश्चौद्रकंधरीभावेन प्रतीतेर्न निरवकाशः श्लेषः । अन्यैः सह संकर इति द्वयोरपि तुल्यकक्षताप्रतीतेः । बाध्यत्वमिति । श्लेषस्य दुर्बलत्वादलंकारान्तराणां च बलवत्त्वात् । एतच्च ग्रन्थकृदेवाग्रे दर्शयि- ष्यतीति नेहायस्तम् । तदेवमस्य सर्वालंकारापवादकत्वं न युक्तम् । अन्यालंकारखदेव बाध्यबाधकभावादिदर्शनात् । एतच्चालंकारसारकृता सप्रपञ्चमुक्तमितीह प्रन्थविस्तरभया-


१. ‘इत्यत्र’ क. २. कोष्ठकान्तर्गतः पाठः ख-पुस्तके नास्ति. ३. ‘एषु' कः ४. च, प्राप्तेषु' ख. ५. ‘बाधकत्वात्’ क. ६. इदं’ क. ७. दुर्लभत्वा' क.


१. ‘दुर्लभत्वात्’ क. १३