त्वेन तावत्प्रतिष्ठितोऽयमलंकारः । तत्राद्यं प्रकारद्वयं तुल्ययोगिताया विषयः । तृतीये तु प्रकारे दीपकं भवतीति तावदलंकारद्वयमिदं श्लेषविषये । व्याप्त्या व्यवतिष्ठते । तत्पृष्ठे चालंकारान्तराणामुत्थापनमिति नास्ति विवि- क्तोऽस्य विषयः । अत एवालंकारान्तराणां बाधितत्वाप्रतिभानमात्रेणाव- स्थानम् । ‘येन ध्वस्तमनोभवेन' इत्यादौ च प्राकरणिकत्वादर्थद्वयस्य तुल्ययो- गितायाः प्रतिभानम् । अलंकार्यालंकरणभावस्य लोकवदाश्रयाश्रयिभावेनो- पपत्तेः । 'रक्तच्छदत्वं’ इत्यादावर्थद्वयाश्रितत्वादयमर्थालंकारः । ‘नालं इत्यादौ तु शब्दद्वयाश्रितत्वाच्छब्दालंकारोऽयम् । यद्यप्यर्थभेदाच्छब्दभेद इति दर्शने ‘रक्तच्छदत्वं’ इत्यादावपि शब्दाश्रितोऽयं तथाप्यौपपत्तिकत्वा । दत्र शब्दभेदस्य प्रतीतेरेकतावसायान्नास्ति शब्दभेदः। ‘नालं’ इत्यादौ तु प्रयत्नादिभेदात्प्रातीतिक एव शब्दभेदः । अतश्च पूर्वत्रैकवृन्तगतफलद्वय- न्यायेनार्थद्वयस्य शब्दश्लिष्टत्वम् । अपरत्र जतुकाष्ठन्यायेन स्वयमेव श्लि- ष्टत्वम् । पूर्वत्रांन्वयव्यतिरेकाभ्यां शब्दहेतुकत्वाच्छब्दालंकारत्वमिति चेत्,
त्तथा नोक्तम् । पूर्वेषामियुद्भटादीनाम् । अविप्रतिपत्तिद्योतकस्तावच्छब्दः । व्याप्त्येति । । सर्वलक्ष्यव्यापकत्वेन सर्वत्रैवास्य त्रिरूपत्वात् । तत्पृष्टं इति तुल्ययोगितादीपकोपरि । अलंकारान्तराणामित्युपमादीनाम् । उत्थापनमिति । तुल्ययोगितादीपकाभ्यामपि तत्प्रतीतेरुद्रेकात् । । अत एवेति तस्य विविक्तविषयत्वासंभवात् । प्रतिमानमित्याभास- मात्रम् । न पुनस्तत्रैव विश्रान्तिरित्यर्थः । एतच्च यथा नोपपद्यते तथा समनन्तरमेवोक्तम् । अस्य च । शब्दार्थाश्रितत्वादुभयालंकारतां दर्शयति--अलंकार्येत्यादिना । ननु च }
- यावन्त एवमर्थाः स्युः शब्दास्तावन्त एव हि' इत्याद्युक्त्यारक्तच्छदत्वमित्यादावपि शब्द-
द्वयाश्रयाच्छब्दालंकार तत्कथमन्यथोक्तमित्याशङ्कयाह--यद्यपीत्यादि । ए- -
कतावसायादिति । रक्तच्छदत्वादेः प्रयत्नादिभेदं विना सादृश्येनार्थद्वयाभिधानात् । अतश्चेति । अर्थद्वयस शब्दद्वयस्य च क्लिष्टत्वात् । पूर्वत्रेति । रक्तच्छदत्वमित्यादौ शब्दस्य वृन्तस्थानीयत्वात् । अपरत्रैति नालमित्यादौ । जतुकाष्ठन्यायेनेति परस्परं संव- लितत्वात् । पूर्वत्रेति रक्तच्छदत्वमित्यादौ । अन्वयव्यतिरेकाभ्यामिति । रंक्त- च्छदत्वमित्येव शब्दे स्थिते श्लेषः शब्दपरिवर्तने तु कृते न श्लेष इत्यत्रापि शब्दहेतुकत्वात्तद- .
१. ‘प्रतितिष्ठतों’ फ. २. ‘एव विषयः ’ क. ३. ‘उत्थानं' क. ४. ‘प्रतिभासनम् त्र. ५. ‘प्रतीत’ क. ६. ‘भेदात्म' क. ।
१. ‘उत्थानमिति’ क. २. ‘कृष्णच्छदत्वमित्येव' क.