पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१०४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१००
काव्यमाला ।


अत एव विशुद्ध्यै इत्युत्प्रेक्षा(या) अत्रात एवेति परामृष्टो विरोधालंका- रालंकृतोऽर्थो हेतुत्वेनोत्प्रेक्ष्यते । विशुद्ध्यै इति च फलत्वेन । ततश्च हेतु- फलयोर्द्वयोरप्यत्रोत्प्रेक्षा । विरोधालंकारस्य च विरोधाभासत्वं ळक्षणम् । अतो विरोधाभासनसमय एव हेतुफलोत्प्रेक्षयोरूत्थानम् । उत्तरकालं तु


तत्क्रियायोगपरामर्शः । फलत्वेनेति उत्प्रेक्ष्यत इत्यत्रापि संबन्धः । ततश्चैति हेतुफलयोर्द्व- योरुत्प्रेक्ष्यमाणत्वात् । ननु विरोधालंकारस्य विरोध एव रूपं तस्य दुष्टत्वात्कृते । । च समाधाने विरोध एव नास्तीति विरोधालंकृतोऽर्थः कथमत्रोत्प्रेक्षायां हेतुत्वं भजत इत्याशङ्कयाह-विरोधेत्यादि । यद्वक्ष्यति-विरोधाभासत्वं विरोधः' इति । अत एव च विरोधाभासमात्रसारत्वाद्यथावभासं विश्रान्त्यभावान्न प्ररोहो नापि बाधोत्पत्ता- वपि पैतिकज्वलस्तम्भतैमिरिकचन्द्राद्वयावभासवदस्ति प्रत्यय इति नात्र पूर्वं विरोधबोधेः पश्चद्विरोधधीरिति वाक्यस्यावस्थाद्वयम् । ननु बाध्यनिषेधपरो नैतदेवमिति प्रत्ययरूपो बाधो बाध्ये च तथैव प्रतीयते किं तेन कृतं स्यादिति चेत्, स्खलद्गतित्वमिति ब्रूमः । तथाहि शुक्तिकारजतमरीचिकासलिलादिविभ्रान्तिष्विव नात्र प्रथमप्रवृत्तविरुद्धप्रतिभास- स्वभावबाध्यविज्ञानसमुत्पुंसनेन बाधकत्वमुदेति । बाधोदयेऽपि पैत्तिकज्वलस्तम्भतैमिरि- कचन्द्रद्वयावभासवद्विरुद्धप्रीतिभासानिवृत्तेः । केवलमत्र तद्वशादेवानुपपद्यमानताकारा स्खलतितैवावगम्यते । स्खलद्गतित्वे च प्रतिपत्तृव्यवहारं प्रति निमित्तत्वानुपपत्तिः । न हि पैत्तिकः स्वपित्तविकाराज्ज्वलत्स्तम्भदर्शनं मन्यमानस्तत्र दाहपाकाद्यर्थितया प्रव- र्तते। तिमिरदोषं वा जानानस्तैमिरिकोऽपि बहिश्चन्द्रद्वयास्तित्वव्यवहारं विधत्ते । एवं बाधोत्पत्तेरनुपपद्यमानत्वात्स्खलद्गतित्वेन प्रतीयमानोऽपि विरोधो न प्रतिपत्रपेक्षोत्प्रेक्षण- लक्षणव्यवहारनिमित्तभावमुपगन्तुमुत्सहतेयतोऽनुपपद्यमानत्वेन स्खलद्गतित्वमुपपद्य-

मानत्वेन च व्यवहारनिमित्तत्वमिति परस्परविरुद्धत्वादनुभवविरोधाच्च तयोः कथमेकत्र समावेश घटते । अतश्चनेनैवाभिप्रायेणाह--अत इत्यादि । विरोधाभासनसमय एवेति । न तु बाधकोदयसमय इत्यर्थः । बाधोदयानन्तरं विरोधस्योत्प्रेक्षाहेतुत्वं न युज्यते इत्युपपादितं स्थितं चोत्प्रेक्षाहेतुत्वं विरोधस्येति बाधोदयात्प्रागेवान्यथानुपपत्या निश्ची- यते। आधस्य च स्वारसिकत्ववस्तुवृत्तेः पर्यालोचनालभ्यत्वेन द्विविधस्यापि सर्वत्रोत्तर- कालमेवोल्लासः संभवति । तस्य च बाध्यनिष्ठत्वाद्वाध्यस्य च पूर्वकालर्भावित्वात् । अ-


१. ‘हेतुकत्वेन' क. २. ‘एव’ ख. ३. ‘उत्थानं स्यात्' ख.


१. 'अतवेति’ क. २. ‘न रूपं' ख. ३. ‘विरोधालंकाराकुतों क. ४. ‘बाध्योत्पत्तौ ख. ५, ‘बोधत्वाच्चात्र विरोधधी:” क. ६. ‘बाध्यं क. ७. ‘प्रतिभानिवृत्तेः ’ क. ८. ‘भावितत्वात्’ क.