येन लम्बालकः सास्रः कराघातारुणस्तनः
अकारि भग्नवलयो गजासुरवधूजनः
इति । तथा
‘चक्राभिघातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य
आलिङ्गनोद्दामविलासशून्यं रतोत्सवं चुम्बनमात्रशेषम्
इत्यादौ सुप्रसिद्धे पर्यायोक्तविषयेऽप्रस्तुतप्रशंसाप्रयोगः अत्र हि गजासुरवधूगतेन लम्बालकत्वादिना कार्येण कारणभूतो गजासुरवधः प्र- तीयते । तथा राहुवधूगतेन विशिष्टेन रतोत्सवेन राहुशिरश्छेदः कारण- रूपो गम्यते । एवमन्यत्रापि पर्यायोक्तविषये ज्ञेयम् । तस्मादप्रस्तुतप्रशं- साविषयत्वात्पर्यायोक्तस्य निर्विषयत्वप्रसङ्गः। नैष दोषः । इह यत्र का- र्यात्कारणं प्रतीयते तत्र कार्यं प्रस्तुतमप्रस्तुतं चेति द्वयी गतिः । यत्र यत्र प्रस्तुतत्वं कार्यस्य कारणवत्तस्यापि वर्णनीयत्वात्तत्र कार्यमुखेन कारणं पर्यायेणोक्तमिति पर्यायोक्तालंकारः । तत्र हि कारणापेक्षया कार्यस्या- तिशयेन सौन्दर्यमिति तदेव वर्णितम् । यथोक्तोदाहरणद्वये । अत्र हि गजासुरवधूवृत्तान्तोऽपि भगवत्प्रभावजन्यत्वात्प्रस्तुत एव । एवं राहुवधूवृ- त्तान्तेऽपि ज्ञेयम् । ततश्च नायमप्रस्तुतप्तशंसाविषयः। यत्र पुनः कारणस्य प्रस्तुतत्वे कार्यमप्रस्तुतं वर्ण्यते तत्र स्पष्टैवाप्रस्तुतप्रशंसा यथा—‘इन्दुर्लिप्त इवाञ्जनेन' इत्यादौ । अत्र हि इन्द्वादयः स्फुटमेवाप्राकरणिकाः तत्प्र- तिच्छन्दभूतानां मुखादीनां प्राकरणिकत्वात् । तेनात्रेन्द्वादिगते नाञ्जन-
लासवातायनसेवनेन श्लाघ्यामयोध्यां नगरीं विधेहि । अत्र स्वयंवराख्ये कार्यं प्रस्तुते का- रणस्याभिधानम् । ननु चात्र कार्यात्कारणस्य प्रतीती यद्यप्रस्तुतप्रशंसा स्यात्तद्वक्ष्यमाणस्य पर्यायोक्तालंकारस्य को विषय इत्याह--नन्वित्यादि । सुप्रसिद्ध इति सर्वालंकारकारा- भिमते । तत्रेति द्वयनिर्धारणे । तदेव वर्णितमिति कार्यमेवोक्तम् । कारणस्य गम्यमान- त्वात् । ततश्चेति । द्वयोरपि कार्यकारणयोः प्रस्तुतत्वात् । स्पष्टैवेति । अप्रस्तुत- स्यैव कार्यस्य प्रशंसितत्वात् । अतश्च द्वयोरपि प्रस्तुतत्वे पर्यायोक्तं प्रस्तुताप्रस्तुतत्वे स्वप्न-
१. ‘अत्र प्रसिद्धे’ क. २. ‘गजासुरवध’ क.
१. ‘कारणे कार्यस्याभिधानम्