लिप्तत्वादिना अप्रस्तुतेन कार्येण प्रस्तुतं मुखादिगतं सौन्दर्य सहृदयाह्वा-
दकारि गम्यते इत्यत्राप्रस्तुतप्रशंसा । एवं च यत्र वाच्योऽर्थोऽर्थान्तरं
तादृशमेव स्वोपस्कारकत्वेनागूरयति तत्र पर्यायोक्तम् । यत्र पुनः स्वा
त्मानमेवाप्रस्तुतत्वात्प्रस्तुतमर्थान्तरं प्रति समर्पयति तत्राप्रस्तुतप्रशंसेति नि-
र्णयः। ततश्चानया प्रक्रियया
राजत्राजसुता न पाठयति मां देव्योऽपि तूष्णीं स्थिताः।
कुस्ते भोजय मां कुमारसचिवैर्नाद्यापि संभुज्यते ।
इत्थं राजशुकस्तवारिभवने मुक्तोऽध्वगैः पञ्जरा-
च्चित्रस्थानवलोक्य शून्यवलभावेकैकमाभाषते ।
- इत्यत्र पर्यायोक्तमेव बोध्यम् । अन्ये तु दण्डयात्रोद्यतं त्वां बुद्धा त्व- दरयः पलाय्य गता इति कारणरूपस्यैवार्थस्य प्रस्तुतत्वात्कार्यरूपोऽर्थोऽप्र-
स्तुत एव राजशुकवृत्तान्तस्याप्रस्तुतत्वाप्रस्तुतार्थं प्रति स्वात्मानं समर्पय-
तीत्यप्रस्तुतप्रशंसैवात्र न्याय्येति वर्णयन्ति । सर्वथा पर्यायोक्ताप्रस्तुतप्रशं-
सयोर्विषयविभागस्तु निरूपित एवेति स्थितम् । एतानि साधर्म्योदाहर- णानि । वैधर्म्येण यथा-
स्तुतप्रशंसेति विषयविभागः । अतश्च सामान्यविशेषयोः प्रस्तुतत्वासंभवात्कार्यकारणयोः प्रस्तुतत्वेऽपि कार्याकारणप्रतीतिवत्कारणात्कार्यप्रतीतेर्वेैचित्र्याभावाच्च ‘पर्यायत्वे कार्य- हेत्वोर्भेदसामान्ययोस्तथा । अप्रस्तुतप्रशंसायां सरूपस्यैव गम्यता ॥ इत्याद्युक्तमयुक्तम् । यद्येवं तदत्र पर्यायोक्ताप्रस्तुतप्रशंसयोः प्रस्तुताप्रस्तुतरूपं कार्यं प्रस्तुतं कारणं कथमार् रयतीत्याशङ्क्याह--एवं चेत्यादि । तादृशमेवेति वाच्यम् । स्वोपस्कारकत्वे- नेति । स्वसिध्यर्थं परस्याक्षेपात् । समर्पयतीति वाच्योऽर्थः । इत्थं च ‘स्वसिद्धये परा- क्षेपः परार्थं स्वसमर्पणम् । उपादानं लक्षणं च’ इत्युक्त्या लक्षणाद्याश्रितत्वादनयोरवा- न्तरोऽपि विषयभेदोऽस्तीत्यत्र तात्पर्यम् । ततश्चेति । अनयोभिन्नविषयत्वात् । अन्य इति काव्यप्रकाशकारादयः । सर्वथेति । तत्र पर्यायोक्तमप्रस्तुतप्रशंसा वास्त्वित्यभि- प्रायः । इह च सारूप्येण साधर्म्योदाहरणानां पूर्वमनुद्दिष्टानामप्येतानि साधर्म्योदाहरणानी-
- त्यनेनातिदेशवाक्येनेति निश्चिनुमः। अयं हि ग्रन्थो ग्रन्थककृतः पश्चात्कैरपिपत्रिकाभिर्लिखि-
त इति प्रसिद्धिः। तैश्चानवधाना उदाहरणपत्रिका न लिखिता। अतिदेशवाक्यं च पत्रिका-
१. ‘इत्यप्रस्तुतप्रशंसाद' स्ख.
१. ‘अत्र’ क. २. ‘साधम्र्येण सारूप्यौ' ख. ३. ‘कैश्चित् ' ख.