‘सृष्टास्ता नन्दने शच्याः केशसंभोगलालिताः।
सावज्ञं पारिजातस्य मञ्जर्यो यस्य सैनिकैः ।
अत्र हयग्रीवस्य कार्यमुखेन स्वर्गविजयो वर्णितः । प्रभावातिशयप्रति-
पादनं च । कारणादिव कार्यादपीति कार्यमपि वर्णनीयमेवेति पर्यायो-
क्तस्यायं विषयः ।
गम्यत्वविच्छित्तिप्रस्तावाव्द्याजस्तुतिमाह
स्तुतिनिन्दाभ्यां निन्दास्तुत्योर्गम्यत्वे व्याजस्तुतिः।
यत्र स्तुतिरभिधीयमानापि प्रमाणान्तराद्बाधितस्वरूपा निन्दायां पर्य- वस्यति तत्रासत्यत्वाव्द्याजरूपा स्तुतिरित्यनुगमेन तावदेका व्याजस्तुतिः । यत्रापि निन्दाशब्देन प्रतिपाद्यमाना पूर्ववद्बाधितरूपा स्तुतिः पर्यवसिता भवति सा द्वितीया व्याजस्तुतिः। व्याजेन निन्दामुखेन स्तुतिरिति कृत्वा । स्तुतिनिन्दारूपत्वस्य विच्छित्तिविशेषस्य भावादप्रस्तुतप्रशंसातो भेदः । क्रमेण यथा
कार्यमुखेनेति । पारिजातमञ्जरीस्पर्शद्वारेणेत्यर्थः । स्वर्गविजय इति कारणरूपः । वर्णनी- यमिति । प्रस्तुतमेवेत्यर्थः । आहेति स्तुतिनिन्दाभ्यामित्यादिना । प्रमाणान्तरादिति व- क्तृवाच्यप्रकरणादिपर्यालोचनात्मनः । बाधितस्वरूपेति। आमुख एव । प्रस्खलद्रूपे- त्यर्थः । अत एवास्या ध्वनेर्भेदः। स हि विश्रान्ते वाक्यार्थे वक्तृवाच्यौचित्यपर्यालोचना- बलादवगम्यते । इह पुनः प्रमाणान्तराद्वधितः सन्वाक्यार्थः स्वयमनुपपद्यमानत्वात्परत्र । निन्दादौ स्वं समर्पयति । तत्रैव प्रकृतवाक्यार्थस्य विश्रान्तेः। एवम्-‘अह सबणाण मग्गो सुहअ तए चेअ णवरें णिव्वूढो । इतुिं अण्णं हिअए अण्णं वाआइ लोअस्स' इत्यादौ विश्रान्ते वाक्यार्थे वक्तृवाच्यीचित्यपर्यालोचनाबलान्निन्दायाः प्रतीतिरिति ध्वनिविषयत्वमेव युक्तम् । पूर्ववदिति प्रमाणान्तरात् । एका द्वितीया चेत्यभिदधता द्वे एवात्र व्याजस्तुती न पुनरे- कैव द्विविधा व्याजस्तुतिरिति सूचितम् । प्रकारप्रकारिभावो हि सामान्यलक्षणासद्भावे न भवति । असंभवत्तत्सामान्यस्य तद्विशेषत्वाभावात् । शब्दनिबन्धनं तु सामान्यमाश्रित्य द्व- योरत्राभिधानम् । एवं स्तुतिनिन्दाभ्यामप्रस्तुताभ्यां निन्दास्तुत्योः प्रस्तुतयोर्गम्यत्वमित्यत्र सिद्धम् । यद्येवं तत्किमियमप्रस्तुतप्रशंसैव न भवतीत्याशङ्कयाह--स्तुतीत्यादि । तत्र
१. ‘परनिन्दादौस्ख.