पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/११९

एतत् पृष्ठम् परिष्कृतम् अस्ति
११५
अलङ्कारसर्वस्वम्


त्विष्टस्य निषेधः । इष्टसंबन्धिनस्त्वन्यस्य सामान्यरूपस्य विशेषः । तेनात्र लक्षणभेदः । विशेषस्य चात्र शब्दानुपात्तत्वाद्गम्यत्वम् । तत्रोक्तविषय आक्षेपे क्वचिद्वस्तु निषिध्यते केचिद्वस्तुकथनमिति द्वौ भेदौ । वक्ष्यमाण- विषये तु वस्तुकथनमेव निषिध्यते । तच्च सामान्यप्रतिज्ञायां क्वचिद्विशेष- निष्ठत्वेन निषिध्यते क्वचित्पुनरंशोक्तावंशान्तरगतत्वेनेत्यत्रापि द्वौ भेदौ । तदेवमस्य चत्वारो भेदाः । शब्दसाम्यनिबन्धनं सामान्यविशेषभावमवलम्ब्य नात्र प्रकारिप्रकारभावप्रकल्पनम् । क्रमेण यथा

‘बालअ णाहं दूई तीअ पिओसि त्ति ण मह वावारो ।
सा मरइ तुज्झ अयसो एअं धम्मक्खरं भणिमो ।'
'प्रसीदेति ब्रूयामिदमसति कोपे न घटते
करिष्याम्येवं नो पुनरिति भवेदभ्युपगमः ।


परत्रावश्यमेव पर्यवस्यतीति कथमत्र निषेधविशेषयोर्भिन्नविषयत्वमुक्तम् । सत्यम् । यद्य- प्येवं तथाप्येतत्र शब्दार्थम् । अर्थवशेन तत्र तथात्वावगतेः । इह च शाब्दमैवैतदाक्षेपाङ्गं नार्थवशायातम् । तथा हि रूपकादीनामप्युपमात्वं स्यात् । तेषामष्यार्थस्य सादृश्यास्या" भावात् । एतच्चोद्भटविचारे राजानकतिलकेनैव सप्रपञ्चमुक्तमिति न तथास्माभिरावि- ष्कृतम् । तेनेति । निषेधविशेषयोरेव भिन्नविषयत्वादाक्षेपशब्दस्यार्थे भेदात् । यस्त्वत्र विशेषः स किं वाच्यः किमुत गम्य इत्याशङ्कयाह-विशेषस्येत्यादि । कथनमे- वेति । न पुनः साक्षाद्वस्तु तदिति कथनम् । सामान्यप्रतिज्ञयेति । सामान्यमे- वाश्रित्येत्यर्थः। विशेषनिष्ठत्वेनेति । सामान्यस्य विशेषाविनाभावित्वात् । निषि- ध्यत इत्यत्रोत्तरत्र च संबन्धनीयम् । अंशान्तरगतत्वेनेति । सामान्यप्रतिज्ञयेत्यत्रापि संबन्धः । अत्रापि ह्यपरांशोक्तिः सामान्यमुखेनैव निषिध्यते । विशेषस्य हि साक्षादत्र निषेधो न भवति । निषेधानन्तरं तत्प्रतीतेर्भाविनो निषेथासंभवात् । नद्युक्तो निषेधः शब्दासमर्पिते तकालमप्रतीयमाने च विषये संभवति । अस्येत्याक्षेपस्य । ननु द्वयोराक्षे- पयौश्चत्वारो भेदाः संभवन्तीति कथमेकस्यैवोक्ता इत्याशङ्कयाह-शब्देत्यादि । प्रक- ल्पनमिति । न पुनर्वस्तुतः सद्भाव इत्यर्थः । वस्तुनो निषेधमुखेन विशेष इत्यनेन यस्यैव


१. ‘ततध’ ख. २. ‘क्वापि’ क. ३. ‘प्रकारप्रकारिकभावपरिकल्पनम्' ख. ४. ‘ब• लक नाहं दूती तस्याः प्रियोऽसीति न मम व्यापारः (?)। सा त्रियते तवायश एतं धमोक्षरं भणामः’ इति च्छाया.


१. ‘सदर्थम्’ क. २. नाक्षेपशब्दस्यार्थभेदात्’ क. ३. ‘शब्दसमर्पिते तत्कालप्र- नीयमाने च' क.