द्योतनादिशब्दाभिधेयस्य व्यञ्जनव्यापारस्यावश्याम्युपगम्यत्वाद्व्यापारस्य च वाक्यार्थत्वाभावाद्वाक्यार्थस्यैव च व्यङ्ग्यरूपस्य गुणालंकारोपस्कर्तव्यत्वेन प्राधान्याद्विश्रान्तिधामत्वादात्मत्वं सिद्धान्तितवान्
गात् । विशेषस्य हि संकेतकरणे आनन्त्यं व्यभिचारश्च स्यात् । ततश्चाभिधया जलप्र वाहमात्रं गृहनिकुरुम्बमात्रं च प्रतीतमित्येका कक्ष्या । एतत्प्रतिपाद्यान्यप्रतिपादनाया प्यभिधा न समर्था । ‘विशेष्यं नाभिधा गच्छेत्क्षीणशक्तिर्विशेषणे' इत्याद्युक्तयुक्त्या तस्या विरम्य व्यापारासंभवात् । सामान्यान्यन्यथासिद्धेर्विशेषं गमयन्ति हि' इति न्यायात्तात्पर्यशक्त्या सामान्यान्याधाराधेयभावेनावस्थितं विशिष्टं गङ्गाघोषाद्यागूरय न्तीति तात्पर्येण परस्परान्वितत्वमात्रमेव प्रतीयत इति द्वितीया । जलप्रवाहस्य च घोषाधिकरणत्वमयुक्तमिति प्रमाणान्तरबाधितः सन् गङाशब्दस्तदधिकरणयोग्यतटं लक्ष्यतीति तृतीया । तत्र तावत् 'मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात् । अन्योऽर्थो लक्ष्यते यत्सा लक्षणा रोपिता क्रिया ।।' इति नीत्या लक्षणा त्रितयसंनिधावेव भवति । तत्र मुख्यार्थबाधा तावत्प्रत्यक्षादिप्रमाणान्तरमूला । यश्च सामीप्यादिसंबन्धः स च प्र माणान्तरावगम्य एव । यत्पुनरिदं घोषस्य शैत्यपावनत्वादिलक्षणं प्रयोजनं प्रतीयते त च्छब्दान्तरानुक्तं प्रमाणान्तराप्रतिपन्नं च कुत आगतम् । न तावत्प्रत्यक्षादेतत्प्रतीतिः । अस्मादेव शब्दादवगमासिद्धेः । शब्दार्थे च तस्याप्रवृत्तेः । नाप्यनुमानात् । सामीप्येऽपि शैत्यपावनत्वादेरसंभवादनैकान्तिकत्वात् । न स्मृतिः । तदनुभवाभावात् । सत्यामपि वा तस्यां नियतस्मरणं न स्यात् । अस्मादेव च शब्दादेतदेव बुध्यत इति को हेतुः । त स्मादस्यैव शब्दस्यैष व्यापारोऽभ्युपगन्तव्यः । निर्व्यापारस्यार्थप्रतीतिकारित्वाभावात् । स तावन्नाभिघात्मा । समयाभावात् । न तात्पर्यात्मा । तस्यान्वयप्रतीतावेव परिक्ष यात् । न लक्षणात्मा । मुख्यार्थबाधाद्यभावात् । तस्मादभिधातात्पर्यलक्षणाव्यक्तिरि क्तश्चतुर्थकक्ष्यानिक्षिप्तो व्यङ्ग्यनिष्ठो व्यञ्जनाव्यापारोऽभिहितान्वयवादिनावश्याम्युपग न्तव्यः । अन्विताभिधानवादिनापि यत्परः शब्दः स शब्दार्थ इति शरवदभिधाव्यापा रमेव दीर्घदीर्घमिच्छतापि नैमित्तिकार्थानुसारेण निमित्तानि कल्प्यन्त इति निमित्तप रिकल्पनेऽपि समग्रैवेयं प्रक्रियानुसरणीयैवेत्युभयथापि सिद्ध एव व्यञ्जनव्यापारः । एतच्च गहनगहनमिति मनागेव सिद्धरसन्यायेनेहोक्तम् । आदिशब्दात्प्रत्यायनावगमनादी नामपि ग्रहणम् । अवश्येति । तेन विना व्यङ्ग्यस्यार्थस्यासंग्रहणात् । व्यापार स्येति । व्यञ्जनात्मिकायाः क्रियाया इत्यर्थः । सा खलु साध्यमानत्वेन पूर्वापरीभूताव यवत्वान्न स्वरूपेणोपलभ्यत इति विचारपदवीमेव स्वयमुपारोढुं नोत्सहत इति कथं नाम तस्या वाक्यार्थत्वं स्यादिति भावः । यद्वक्ष्यति-‘व्यापारस्य विषयमुखेण स्व रूपप्रतिलम्भात्तत्प्राधान्येन प्राधान्यात्स्वरूपेण विचार्य(विदित)त्वाभावाद्विषयस्यैव
१. ‘प्रतीतमेवेत्येका' क. २. ‘स च गङ्गाशब्दार्थादधिकरण’ ख. ३. ‘शाब्देऽर्थे' क