पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१२०

एतत् पृष्ठम् परिष्कृतम् अस्ति
११६
काव्यमाला ।


न मे दोषोऽस्तीति त्वमिदमपि हि ज्ञास्यसि मृषा
किमेतस्मिन्वक्तुं क्षममिति न वेद्मि प्रियतमे ।

'सुहअ बिलम्बसु थोअं जाव इमं विरहकाअरं हिअअम् ।
संठविऊण भणिस्सं अहवा वोलेसु किं भणिमो ॥

‘ज्योत्स्ना तमः पिकवचः क्रकचस्तुषारः
क्षारो मृणालवलयानि कृतान्तदन्ताः ।
सर्वं दुरन्तमिंदमद्य शिरीषमृद्वी
सा नूनमाः किमथवा हतजल्पितेन ।'


आये उदाहरणद्वये यथाक्रमं वस्तुनिषेधेन भणितिनिषेधेन चोक्तविषय आक्षेपः । तत्र चोक्तस्य दूतीत्वस्य वस्तुनो निषेधमुखेनैव वास्तवत्वादि- विंशेषः । तथा भण्यमानस्य प्रसादस्य निषेधमुखेनैव कोपोपरागनिवर्त- नेनावश्यस्वीकार्यस्वं विशेषः । उत्तरस्मिन्पुनरुदाहरणद्वये यथाक्रमं सामा- । न्यद्वारेणेऽस्यांशोक्तावप्यशान्तरस्य स्वरूपेण च भणितिनिषेधे वक्ष्यमाण- विषय आक्षेपः । तत्र च वक्ष्यमाणस्येष्टस्य भणितिसमिति प्रतिज्ञा तस्य सातिशयाकोपजनकत्वादिर्विशेषः । तथा चांशोक्तावशान्तरस्य म्रियत


निषेधस्तस्यैव विशेष इत्युक्तं निर्वाहितम् । ‘दूरपवासे सँमुहो सि सुहअ आलिङ्गणं स्वणं कुरुसु । अहवा अला हि इमिणा गमणम्मि विलम्बआरेण ॥’ इत्यत्र पुनरुक्तस्यालिङ्गनस्य निषेधो विधौ तात्पर्याभावात्र निषेधाभासतामियादित्येतदुदाहरणं न वाच्यम् । यतोऽत्र वि- लम्बनकारिण आलिङ्गनस्यैव निषेधेन गमनविधिरुद्रेचितः । स च विधिनुपपद्यमान- त्वादप्रस्थानलक्षणं निषेधं लक्षयति । अत्र च गमनस्यावश्यपरिहार्यत्वादिर्विशेषः प्रयो- जनम् । क्षणलिङ्गनमात्रस्यैव चेष्टत्वे गमनस्य विधिरेव पर्यवस्येन निषेध इति विवक्षित- वाक्यार्थविप्रलोप एव स्यात् । अतश्चोक्तविषये विहितनिषेधेऽप्याक्षेपत्वमन्यत्र निषेधो-• ऽन्यत्र विशेषवेति न वाच्यम् । प्रसादस्येति वस्तुनो न ब्रूयामिति तत्कथनस्यैव निषेधः। सामान्यद्वारेणेति । भणिष्यामीति भणनसामान्यमाश्रित्येत्यर्थः । तच्च तत्तदपराधो- दीरणपरमेवेति तस्य विशेषागूरकत्वम् । इष्टस्येति काकाक्षिन्यायेन योज्यम् । अंशोक्ता- विति सर्वे दुरन्तमित्यादिना । अंशान्तरस्येति म्रियते इत्यादेः । किमथवा इतजल्पितेनेति


१. ‘सुमग विलम्बस्व स्तोकं यावदिदं विरहकान्तरं हृद्यम् । संस्थापयित्वा भणि ष्यामि अथवा ब्रज (?) किं भणामः ॥’ इति छाया. २. ‘वास्तवाभिन्नादिविशेषतया भण्यमानस्य ख.


२. विधितात्पर्यं क.