पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१२१

एतत् पृष्ठम् परिष्कृतम् अस्ति
११७
अलङ्कारसर्वस्वम्


इति प्रतिपाद्यस्याशक्यवचनीयत्वादिर्विशेषः । एवं च क्षिपे इष्टार्थस्तस्य नि- षेधः निषेधस्यानुपपद्यमानत्वादसत्यत्वं विशेषप्रतिपादनं चेति चतुष्टयमु- पयुज्यते । तेन न निषेधविधिः न विहितनिषेधः । किं तु निषेधेन विधे- राक्षेपः । निषेधस्यासत्यत्वाद्विधिपर्यवसानात् । विधिना तु निषेधोऽस्य भेदत्वेन वक्ष्यते । तथा च हर्षचरिते—'अनुरूपो देव्या इत्यात्मसंभा- वना-' इत्यादौ, तथा 'यामीति न स्नेहसदृशं ' इत्यादावुक्तविषय


सामान्यरूपस्यैव निषेधः । एवमप्यस्य विभज्य स्वरूपं प्रतिपादयति--द चेत्या- दिना। उपयुज्यत इति । एतच्चतुष्टयमन्तरेणाक्षेप एव न भवतीत्यर्थः । तदेवाह- तेनेत्यादिना । निषेधविधिर्नाक्षेप इति संबन्धः । एतदुत्तरत्रापि योज्यम् । यदाहुः- ‘विहितस्य निषेधेन न निषेधविधौ भवेत् । निषेधेन विधिर्यत्र तत्राक्षेपः प्रकीर्तितः ॥' इति । तत्र निषेधविधिर्यथा—‘एष क्षीरोदजन्मा कुमुदकुलपतिः सेयमाकाशगङ्गा ब्राह्मं शीर्षं तदेततदिदमानिमिषं नेत्रमग्नेरगारम् । सैषा हालाहलश्रीर्वलयिततनवो नागराजास्त एते कङ्कालं कालियारेरिदमपि तदलं भाषितैर्रों नमस्ते ॥’ अत्रालमिति निषेधस्यैव विधिः । अतश्च न तस्यासत्यत्वम् । तदभावाच्च न विधिपर्यवसानमित्याक्षेपोपयोगिन्याः सामग्र्या अभाव इति नायमत्रालंकारः । स हि चतुष्टयसंनिधावेव भवति । विहितनिषेधस्तु यथा -ब्रह्मभ्यः शिवमस्तु वस्तु विततं किं चिद्वयं ब्रूमहे हे सन्तः शृणुतावधत्त च धृतो युष्मासु सेवाञ्जलिः । यद्वा किं विनयोक्तिभिर्मम गिरां यद्यस्ति सूक्तामृतं माद्यन्ति स्वय- मेव तत्सुमनसो याच्या परं दैन्यभूः ॥। ’ अत्र विहितानां विनयोक्तीनां निषेध इति विहित- निषेधः । पूर्ववच्चात्र नाक्षेपालंकारः । निषेधेन विधिस्तु ग्रन्थकृतैवोदाहृतः । अत्र च निषेधः स्वयमनुपपद्यमानत्वादाविश्राम्यन्स्वात्मानं विध्यर्थे समर्पयतीति 'परार्थं स्वसमर्प- णम्' इत्येवंरूपलक्षणामूलत्वमस्य सिद्धम् । यदुक्तमन्यत्र–‘यत्र स्वयमविश्रान्तेः परार्थं स्वसमर्पणम् । कुरुतेऽसौ स आक्षेपो निषेधस्यैव भासनात् ’ इति । निषेधविधौ विहित- निषेधे च पुनरभिधेयनिषेधः । न पुनः स्वसिद्धये पराक्षेप इत्येवं लक्षणामूलत्वमत्र वा- च्यम् । मुख्यार्थस्यैव विश्रान्तेर्मुख्यार्थबाधाद्यभावात् । अतश्चान्यैः स्वसिद्धये पराक्षेपः प्र- तिषेधस्य यत्र हि । आक्षेपस्तत्र नैवेष्टः प्रतिषेधस्य भासनात् ॥' इत्याद्ययुक्तमेवोक्तम् । यद्यपि लक्षणायां स्वसिद्धये पराक्षेपस्य प्रागभाव एव प्रागुक्तस्तथाप्येतत्पक्षाश्रयेऽपि प्राच्यानामपर्यालोचिताभिधानमित्येवंपरमेतदुक्तम् । ननु च यद्येवं निषेधस्यासत्यत्वाद्विधि- पर्यवसाने आक्षेप उक्तस्तद्वेदव विधेर्निषेधपर्यवसाने को नामालंकार इत्याशङ्कयाह -- विधिनेत्यादिना । अस्येत्याक्षेपस्य । शब्दसाम्यनिबन्धनं सामान्यभावमाश्रित्य चात्र


१. ‘य इष्टार्थःक.


. ‘अत एव’ क.