पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१२५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२१
अलङ्कारसर्वस्वम्


धीयते । न चास्य विधिर्युक्तः । अनिष्टत्वात् । सोऽयं प्रेस्खलद्रूपत्वेन नि षेधमागूरयति । फलं चात्रानिष्टस्य प्रस्थानस्यासंविज्ञानपदनिबन्धनमत्य- न्तपरिहार्यत्वप्रतिपादनम् । एतच्च ममापि तत्रैवेत्याशीःप्रतिपादनेनानि- ष्टपर्यवसायिना व्यञ्जितम् । यथा वा

‘नो किचित्कथनीयमस्ति सुभग प्रौढाः परं त्वादृशाः
पन्थानः कुशला भवन्तु भवतः को मादृशामाग्रहः
किं त्वेतत्कथयामि संततरतक्लान्तिच्छिदस्तास्त्वया
स्मर्तव्याः शिंशिराः सहंसगतयो गोदावरीवीचयः


अत्रानभिप्रेतमपि कान्तप्रस्थानं यदा प्रमुख एवाभ्युपगम्यमानं प्रतीयते, तदायमनिष्टविधिराभासमानमाक्षेपाङ्गम् स्मर्तव्या इत्यनेन गमननिवृत्ति- रेवोपोद्वलिता । तस्मादयमपि प्रकार आक्षेपस्य समानन्यायतयाभिनव- त्वेनोक्तः

आक्षेपे इष्टनिषेधेऽनिष्टविधौ चानुपपद्यमानत्वाद्विःरुद्धत्वमनुप्रविष्टम् एतत्प्रस्तावेन विरोधगर्भाऽलंकारवर्गः प्रीक्रियते । तत्रापि विरोधालंकारस्ताव- ल्लक्ष्यते
विरुद्धाभास विरोधः


द्रूपत्वेनेति स्वार्थबाधात् । आगूरयतीति स्वात्मसमर्पणेन ननु विधिमुखेनास्य किमागू- रणं स्वयं निषेध एव क्रियतामित्याशङ्कयाह—फलमित्यादि । एतचेति विधेर्निषेधागू- रकत्वम् । यथा वेत्यनेनास्य लक्ष्ये प्राचुर्यं दर्शितम् । प्रमुख एवेति न पुनः पर्यवसान इत्यर्थः । एतदेवोपसंहरति-तस्मादित्यादिना। अभिनवत्वेनेति दण्ड्यापेक्षया। तेन ह्यसौ ‘इत्याशीर्वचनाक्षेपो यदाशीर्वादवर्त्मना । स्वावस्थां सूचयन्त्येवं प्रिययात्रा निषिध्यते ॥’ इत्युक्तेरसंभवतापि लक्षणेन लक्षितः । न पुनर्ग्रन्थकृदुपज्ञत्वेनैतद्व्याख्येयम् ‘विधिनिषेधाभ्यां प्रतिषेधविध्युक्तिराक्षेपः’ इतीदृगेव हि श्रीभोजदेवेनाप्यस्य लक्षणं कृ- तम् । इदानीं विरोधस्य लक्षणमुपक्रमते--आक्षेप इत्यादिना एतत्प्रस्तावे नेति । विरुद्धत्वानुप्रवेशानुगुण्येनेत्यर्थः । तत्रापीति । विरोधगर्भालंकारोपक्रमेऽपीत्यर्थः तावदित्युपक्रमे । तत्र हि विरुद्धगर्भत्वस्य प्राधान्यम् । तदेवाह-विरुद्धेत्यादि।


१. ‘प्रलुठद्प’ क. २. ‘निर्बन्धं’ क. ३. “शिथिलाः' ख. ४. ‘यस्य मुखे एख’ स्ख. ‘इष्टस्' ख. ६. ‘प्रतीयते’ क. १६