पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१२६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२२
काव्यमाला ।


इह जात्यादीनां चतुर्णां पदार्थानां प्रत्येकं तन्मध्य एव सजातीयवि- जातीयाभ्यां विरोधिभ्यां संबन्धे विरोधः । स च समाधानं विना प्ररूढो दोषः। सति तु समाधाने प्रमुख एवाभासमानत्वाद्विरोधाभासः । तत्र जातिविरोधस्य जात्यादिभिः सह चत्वारो भेदाः । गुणस्य गुणादिभिः सह त्रयः । क्रियायाः क्रियाद्रव्याभ्यां सह द्वौ भेदौ । द्रव्यस्य द्रव्येण सहैकः । तदेवं दश विरोधभेदाः । तत्र दिङ्मात्रेणोदाहरणं यथा -

‘परिच्छेदातीतः सकलवचनानामविषयः
पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान् ।
विवेकप्रध्वंसादुपचितमहामोहगहनो
विकारः कोऽप्यन्तर्जडयति च तापं च कुरुते ।


अत्र जडीकरणपापकरणयोः क्रिययोर्विरोधो वस्तुसौन्दर्येणाप्राप्तिपर्य- वसानेन परिह्रियते । तथा--

‘अयं वारामेको निलय इति रत्नाकर इति
श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः।
क एवं जानीते निजकरपुटीकोटरगतं
क्षणादेनं ताभ्यत्तिमिमकरमापास्यति मुनिः ।


तन्मध्य एवेति । जात्यादीनां गुणादय एव विजातीया गुणादीनामपि जात्यादय एव वि- जातीया ग्राह्याः, न पुनरन्ये यदृच्छादय इत्यर्थः । ननु विरोधस्य दोषत्वं वाच्यं प्रत्युतास्य कथमलंकारत्वमुच्यत इत्याशङ्कयाह--स चेत्यादि । समाधानमिति । वस्तुवृत्तप र्यालोचनालभ्यो विरोधप्रतीत्यनन्तरभावी नैतदेवमिति प्रत्ययरूपो बाधः । प्रमुख एवेति न पुनः पर्यवसाने । तेनामुखावगतो विरोधः पर्यवसाने न तथा प्ररोहमेतीति भावः । एतच्च श्लेष एव वितत्य प्रतिपादितमितीह न पुनरायस्तम् । एवं च सत्यपि समाधाने दोषाभाव- मात्रमेवास्य स्वरूपं नाशङ्कनीयम्। अलंकारत्वपर्यवसायिनो विच्छित्तिविशेषस्यापि संभवात् । जातेर्गुणेन सह विरोधे उक्ते ‘विरोधोऽन्योन्यबाधनम्’ इति दृशा तेनैव गुणस्यापि जात्या मह विरोधः सिद्धः । अत एव गुणस्य जातिवर्जे त्रयोभेदाः । एवमन्यत्रापि ज्ञेयम् । दिङ्यात्रेणेति । अनेनैषां लक्ष्ये तथा वैचित्र्याभावादनवक्तृप्तिर्ध्वनिता । अत एवास्मा-


१. ‘तसमाधाने तु' ख.


१ ‘प्ररोहतीति’ ख. २. ‘विच्छित्यविशेषस्यापि’ क.