पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१२७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२३
अलङ्कारसर्वस्वम्


अत्र जलनिधिः पीत इति द्रव्यक्रिययोर्विरोधो मुनिगतेन महाप्रभाव- वेन समाधीयते । एवमन्यदपि ज्ञेयम् ।

विविक्तविषयत्वेन चास्य दृष्टेः। श्लेषगर्भत्वे विरोधप्रतिभोत्पतिहेतुः श्लेष औद्भटानाम् । दर्शनान्तरे तु संकरालंकारः । यथा-‘संनिहितवा- लान्धकारा भावन्मूर्तिश्च' इत्यादौ विरोधिनोर्द्वयोरपि श्लिष्टत्वे । एकस्य तु श्लिष्टत्वे ‘कुपतिमपि कलत्रवल्लभम्’ इत्यादौ । एकविषयत्वे चायमि- ष्यते । विषयभेदे त्वसंगतिप्रभृतिर्वक्ष्यते ।

एवं विरोधमुक्त्वा विरोधमूला अलंकाराः प्रदर्श्यन्ते । तत्रापि कारण- भावमूलत्वे विभावनां तावदाह--


भिरप्येते नोदाहृताः । अन्यदिति । अनेनेह चिरंतनैरनुक्ता अपि वैचित्र्याधायिनो भेदा अनुसर्तव्या इत्यपि सूचितम् । तेन भावयोरभावयोर्भावाभावयोश्च विरुद्धत्वोपनिबन्धे वि- रोधो ज्ञेय इति । तत्र भावयोर्ग्रन्थकृतैवोदाहृतम् । अभावयोस्तु यथा। -‘तं वीक्ष्य वेपथु- मती सरसाङ्गयष्टिश्चिनिक्षेप एव पदमुद्धृृतमुद्वहन्ती । मार्गाचलव्यतिकराकुलितेव सिन्धुः शैलाधिराजतनया न ययौ न तस्थौ। अत्राभावरूपयोः क्रिययोर्विरोधः । भावाभावयोस्तु यथानङ्गलेखायां राजवर्णने ‘विदर्भाङ्गनाजनमपि दर्भगर्भकरमकरोत्, पञ्चतां जनयन्नपि प- च्चालस्य वैमुख्यमपुष्णात् , पारसीकरणमप्यारसीकरणं चकार, मागधानपि विमागधान्व्य धात्, चोलकान्ता अप्यचोलकान्ताः समपादयत्, कुन्तलालसानप्यकुन्तलालसांश्च निर्ममे शूरसेनानप्यशूरसेनानदर्शयत् । इत्यादि । अस्यापि मतभेदेन श्लेषेण सह व्यवस्थितिं दर्श- यितुमाह--विविक्तेत्यादि । ‘जडयति च तापं च कुरुते’ इत्यत्रास्य विविक्तविषयत्वम्। दर्शनान्तर इति ग्रन्थकृदभिमते । संकरशब्दश्चात्र संकीर्णमात्रे वर्तते । तेनात्र संकरेण संकीर्णत्वेन च श्लेषमिश्रत्वेनालंकारो विरोधाभास इति व्याख्येयम् । अलंकारशब्देन चात्र विरोधाभास एवाभिधीयते । तस्यैवेह प्रस्तुतत्वात् । अत्र हि श्लेषो विरोधोत्पत्तौ हेतुत्वं भजते । तेन विना तस्यानुत्थानात् । संकरश्च स्वहेतुबलाल्लब्धसत्ताकयोरलंकारयोर्भवति । तेन यो यस्य हेतुत्वं भजते तेन सह तस्य संकरो न युक्तः । यद्वक्ष्यति-न च विरोधोत्प त्तिहेतौ श्लेषस्य विरोधेन सहाङ्गाङ्गिसंकरः' इति । द्वयोरेकस्येत्यनेन श्लेषमिश्रत्वस्यापि वै- चित्र्यं दर्शितम् । अस्य च वक्ष्यमाणाद्विरोधगर्भादलंकाराद्वैलक्षण्यं दर्शयति-एकेत्या दिना । जडीकरणतापकरणयोर्विंकारयोविंकारिगतत्वेनास्यैकविषयत्वम् । विषयभेद इति । कार्यकारणादीनामेकविषयत्वोपपत्तावपि भिन्नदेशत्वाद्युपनिबन्धनात्। तावदिति प्र- थमम् । कारणाभावे कार्योत्पत्तेरत्यन्तं विरुद्धत्वात् । आहेति । कारणाभाव इत्यादिना ।


१. ‘एतन्नोदाहृतम्’ क. ३. ‘अनुमन्तव्याः’ ख. ३. ‘' कः