पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१२८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२४
काव्यमाला ।


कारणभावे कार्यस्योत्पत्तिर्विभावना ।

इह कारणान्वयव्यतिरेकानुविधानात्कार्यस्य कारणमन्तरेणासंभवः । अ- न्यथा विरोधो दुष्परिहरः स्यात् । यदि तु कयाचिद्भङ्गया तथाभाव उप- निबध्यते तदा विभावनाख्योऽलंकारः । विशिष्टतया कार्यस्य भावनात् । सा च भङ्गिविशिष्टकरणाभावोपनिबन्धः। अप्रस्तुतं कारणं वस्तुतोऽस्तीति विरोधपरिहारः। कारणाभावेन चोपक्रान्तत्वाद्बलवता कार्यमेव बाध्यमा- नत्वेन प्रतीयते, न तु तेन कारणाभाव इत्यन्योन्यबाधकत्वानुप्राणिताद्विरो- धालंकाराद्भेदः । एवं विशेषोक्तौ कार्याभावेन कारणसत्ताया एव बाध्य-


तत्र तावत्कार्यस्य कारणपरतन्त्रतां दर्शयति--इहेत्यादिना । यदुक्तम् -‘यो हि येन विना नास्ति यस्मिश्च सति विक्रिया । तदेव कारणं तस्य नान्यत्कारणमुच्यते ॥ इति । अन्यथेति । यदि कारणं विनापि कार्यस्य संभव उपनिबध्यत इत्यर्थः । ननु यद्येवं त- त्कथं कारणाभावे कार्योत्पत्तिरुपा विभावना भवतीत्याशङ्कयाह--यदि त्वित्यादि । तथाभाव इति कारणामावे कार्योत्पत्तिः । अत एव कार्यस्य विशिष्टत्वम् । सेति । यया भङ्गया कारणं विनापि कार्यसंभव उपनिबध्यत इत्यर्थः । विशिष्टेति प्रसिद्धम् । विरोधपरिहार इति । अप्रसिद्धस्य कारणान्तरस्य प्रस्तुतत्वात् । ननु यद्वेवं तत्कथमयं विरोध एव न भवतीत्याशङ्कयाह-कारणेत्यादि । तेनेति का- र्येण । यदुक्तम्—‘कारणस्य निषेधेन बाध्यमानः फलोदयः । विभावनायामाभाति विरोधोऽन्योन्यबाधनम् ॥ अतो दूरविभेदोऽस्या विरोधेन व्यवस्थितः ॥ इति । एतदेव प्रसङ्गाद्विशेषोक्तेरप्याह---एवमित्यादि । लेखककल्पितश्चायमपपाठः । तथा हि-‘हरतापि तनु यस्य’ इत्यादौ बलाहरणेन कार्यभावेन तनुहरणरूपं कारणं न बाध्यते अपि तु सत्यपि तनुहरणाख्ये सामर्ग्ये कथं न बलं हतमिति कार्याभावस्यैव बाध्यत्वेन प्रतीतिः । तस्मात् ‘एवं विशेषोक्तौ कारणसत्तया कार्यभावस्यैव बाध्यमानत्यमुन्नेयम्’ इति पाठो ग्राह्यः । एतदेव राजानकतिलकेनाप्युक्तम्—‘कारणसामग्र्यमिह बाधकत्वेनैव प्रतीयते कार्यानुत्पत्तिस्तु बाध्यत्वेन’ इति । ग्रन्थकृच्च प्रायस्तन्मतानुवर्त्येव । तदुक्तसमा-


१. ‘यदा’ क. २. ‘भावात् ’ ख. ३• ‘कारणाभावौ भावकायपनिबन्धः’ क. ४. ‘चेही ख.


१. ‘विद्यते क्रिया’ ख. २. ‘संबन्धः’ क ३. ‘अत्र दूरे विरोधः स्याद्विभेदेन’ क. ४. ‘सत्तायाःख. ५. ‘एतच्च' क.