पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१२९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२५
अलङ्कारसर्वस्वम्


मानत्वमुन्नेयम् । येन सापि विरोधाद्भिन्ना स्यात् । इह च लक्षणे यद्य- प्यन्यैः कारणपदस्थाने क्रियाग्रहणं कृतं तथापीह कारणपदमेव विहितम् । नहि सर्वैः क्रियाफलमेव कार्यमभ्युपगम्यते । वैयाकरणैरेव तथाभ्युपगमात् अतो विशेषमनपेक्ष्य सामान्येन कारणपदमेवेह निर्दिष्टम् । यथा

‘असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य ।
कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे ।


अत्र द्वितीये पादे मदस्य प्रसिद्धं यदासवाख्यं करणं तदभावेऽपि

यौवनहेतुकत्वेनोपनिबन्धः कृतः । मदस्य च द्वैविध्येऽप्यभेदाध्यवसायादेक-

त्वमतिशयोक्त्या । सा चास्यामव्यभिचारिणीति न तद्बाधेनास्या उत्थानम्, अपि तु तदनुप्राणितत्वेन । इयं च विशेषोक्तिवदुक्तानुक्तनिमित्तभेदाद्विधैव । तत्रोक्तनिमित्तोदाहृता । अनुक्तनिमित्ता यथा


नन्यायोऽस्माभिः पाठो लक्षितः। येनेति । एकस्यैव बाध्यत्वेन प्रतीतेः । ननु च ‘क्रि-. यायाः प्रतिषेधेऽपि यत्फलस्य विभावनम् । ज्ञेया विभावना इत्यादिनोद्भटादिभिरेतल्ल- क्षणे क्रियाग्रहणं कृतमिति कथमिह तदुल्लड्घनेन कारणग्रहणं कृतमित्याशङ्कयाह-इहे- त्यादि। सर्वैरिति बौद्धादिभिः । अत इति । वैयाकरणैरेव क्रियाफलस्य कार्यस्या- भ्युपगमात् । सामान्येनेति । सर्ववादिसाधारणतयेत्यर्थः। सर्ववादिसाधारणोऽयं ग्रन्थः। द्वितीय इति । अन्यपादयोर्न विभावनेत्यर्थः । यौवनहेतुकस्वेनेति । समाधाना- याप्रसिद्धं कारणमाश्रित्येत्यर्थः । अन्यथा हि विरोधपरिहारो न स्यात् । ननु चासवज- नितोऽन्य एव मदो यौवनहेतुकश्चान्य एवेत्यत्र यौवनहेतुक एव विवक्षित इति कथं का- रणाभावे कार्यस्योत्पत्तिरित्याशङ्कयाह-मदस्येत्यादि । द्वैविध्य इति क्षैब्यदर्परूपे । सेत्यतिशयोक्तिः । अव्यभिचारिणीति । अतिशयोक्तिं विनास्या अनुत्थानात् । अत एवेयमातिशयोक्त्यनुप्राणितैव भवतीति सिद्धम् । तदेवाह-तदनुप्राणितत्वेनेति । यदुक्तमन्यत्रापि-आश्लिष्टातिशयोक्तिश्च सर्वत्रैव विभावना’ इति। ‘निरुपादानसंभारमभि- त्तावेव तन्वते । जगच्चित्रं नमस्तस्मै कलाश्लाध्याय शूलिने ।’ इत्यत्र तु जगत उपादा- नादिविरहेणैव भगवत्कार्यस्य वास्तवत्वाद्विभावनैव नास्तीति कस्यातिशयोक्त्यनुप्राणितत्वं स्यात् । एवम्--‘ण अ रूवं ण अ ऋद्धी णावि कुलं ण अ गुणाण विण्णाणम् । एमे अ तह । वि कस्स वि को वि अणो वल्लहो होइ ।’ इत्यादावपि ज्ञेयम् । अतश्च क्वचिच्छुद्धस्यापि संभवात्सर्वत्रास्यातिशयोक्यनुप्राणितत्वमिति न वाच्यमिति यदुक्तं तदयुक्तम् । विशे- षोक्तिवदिति । विशेषोक्तौ प्राज्यैर्यथोक्तमित्यर्थः । अत्र चाद्य उदाहरणे द्वितीयपाद


१. ‘तदोदाहरणम्’ ख. २. ‘उत्थापनं’ क.


१. विभावना’ क. २. ‘इति भावःख. ३. ‘ण अर्थ क.