वन्द्याः श्लाघ्यगुणास्त एव विपिने संतोषभाजः परं
बाह्योऽयं वरमेव सेवकजनो धिक्सर्वथा मन्त्रिणः ॥'
अत्र पथ्यपराङ्खस्वमुपालम्भज्वरविषयत्वस्य भिन्नदेशो हेतुरित्यसं-
मतिः । एवम्
‘सा बाला वयमप्रगल्भवचसः सा स्त्री वयं कातराः
सा पीनोन्नतिमत्पयोधरभरं धत्ते सखेदा वयम् ।
साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं
दोषेरन्यसमाश्रितैरपटवो जाताः स इत्यद्भुतम् ॥
(इत्यत्र ज्ञेयम् । ) अंत्र बाल्यनिमित्तमप्रगल्भवचनत्वमन्यदन्यच्च स्मरनि-
मित्तकमित्यनयोरभेदाध्यवसायः । एवमन्यत्र ज्ञेयम् ।
विरूपकार्यानर्थयोरुत्पत्तिर्विरूपसंघटना च विषमम् ।
विरोधप्रस्तावेनेह लक्षणम् । तत्र कारणगुणप्रक्रमेण कार्यमुत्पद्यत इति प्रसिद्धौ यद्विरूपं कार्यमुत्पद्यमानं दृश्यते तदेकं विषमम् । तथा कंचिदर्थं साधयितुमुद्यतस्य न केवलं तस्यार्थस्याप्रतिलम्भो यावदनर्थप्रा-
भेदः । इह लक्ष्यत इति । अस्या अपि कारणयोर्भिन्नदेशत्वेन विरोधगर्भत्वात् । अ- भेदाध्यवसाय इति । अनेनातिशयोक्तिरस्या अप्यनुप्राणकत्वेन कटाक्षिता । अन्यथा हि विरोधो दुष्परिहरः स्यात् । एवं पथ्यज्वरशब्दयोरतिशयोक्तिबलात्प्रजापालनयुक्तिसं- तापवाचकत्वं द्रष्टव्यम् । अन्यत्रेति कातरत्वादौ । विरूपेत्यादि । इहेति । अस्या अप्यननुरूपसंसर्गेण विरोधगर्भत्वात् । विरूपमिति । कारणापेक्षया विजातीयत्वेनात- द्गुणत्वात् । यद्यपि ‘गोमयादृश्चिकोत्पत्तिः' इतिवत्कार्यकारणयोर्वास्तवं विरूपत्वं संभवति तथापीह कविप्रतिभानिर्वर्तितमेव तद्भाव्यम् । तेन ‘द्राक्षाफलानि शिखरेषु शिलोच्चयानां पीयूषसाररसनिर्भरगर्भवन्ति । विष्वग्दृषत्कठिनकायनिगूढश्रृगश्रृगाटकानि पुनरम्भसि सं- भवन्ति ॥' इत्यादौ विषमं न वाच्यम् । ईदृश एव कार्यकारणभावस्य वस्तुतः संभवात् । तस्येति साधयितुमिष्टस्य । अप्रतिलम्भ इति । असिद्धिरिति यावत् । अत्यन्तेति ।
१. एवं च' ख. २. ‘समाश्रयैः’ क. ३. ‘अत्र-ज्ञेयम्’ ख-पुस्तकें नास्ति.
१, ‘विरूपतागर्भत्वात्’ क. २. ‘हुँ’ क-ख, ३. ‘अप्रसिद्धि ’ क,