पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१३५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३१
अलङ्कारसर्वस्वम्


प्तिरपीति द्वितीयं विषमम् । अत्यन्ताननुरूपसंघटनयोर्विरूपयोश्च संघ- टनं तत्तृतीयं विषमम् । अननुरूपसंसर्गो हि विषमम् । क्रमेण यथा

'सद्यः करस्पर्शमवाप्य चित्रं रणे रणे यस्य कृपाणलेखा ।
तमालनीला शरदिन्दुपाण्डु यशस्त्रिलोकाभरणं प्रसूते ।
‘तीर्थान्तरेषु मलपङ्कवतीर्विहाय
दिव्यास्तनूस्तनुभृतः सहसा लभन्ते ।
वाराणसि त्वयि तु मुक्तकलेवराणां
लाभोऽस्तु मूलमपि यात्यपुनर्भवाय ।
‘अरण्यानी क्वेयं धृतकनकसूत्रः क्व स मृगः
क्व मुक्ताहारोऽयं क्व च स पतगः क्वेयमबाला । १ ३
क्व तत्कन्यारत्नं ललितमहिभर्तुः क्व च वयं
स्वमाकूतं धाता निभृतनिभृतं कन्दलयति ।


अत्र कृष्णवर्णाच्छुक्लवर्णात्पत्तिः कलेवरात्यन्तापहारलक्षणानर्थान्त- रोत्पत्तिरिति, अत्यन्ताननुरूपाणां चारण्यादीनां परस्परं संघटनं क्रमेण


न केवलं तयोः स्वयं विरूपत्वं यावत्तत्संघटनाया अप्यननुरूपत्वमित्यत्र तात्पर्यम् । एकमि- त्याद्यभिदधता ग्रन्थकृता विषमाणां भिन्नत्वमुक्तम् न प्रकारप्रकारित्वम् । सामान्यलक्षण- स्यासंभवात् । एवमेव पुनरेषां कस्मादभिधानमित्याशङ्कयाह-अननुरूपेत्यादि । यत्किंचित्पुनरस्मदर्शनविरुद्धमन्यैरधिकमुक्तं तदिहास्माभिर्यथावस्तुग्रन्थार्थमात्रव्याख्यान- निर्वाहसमुत्सुकमानसत्वान्न निराकृतमिति न तदैव सिद्धान्तीकार्यम् । तस्य पृथद्विरसि- ष्यमाणत्वात् । इह हि यथाशक्त्यस्माकमाग्रहप्रवृत्तपरकीयदूषणोद्वारमात्रमेव विवक्षितम् । यथोपयोगं पुनस्तन्निराकरणमपिकृतं करिष्यते च । अत्र शुक्लकृष्णवर्णत्वं कार्यकारणात्मक- विषयद्वयगतत्वेन स्थितमित्यस्य भिन्नविषयत्वादेकविषयाद्विरोधाद्भेदो ज्ञेयः । एवमन्यत्रापि शेयम् । अरण्यान्यादीनामननुरूपमन्योन्यघटनं वास्तवमित्युदाहरणान्तरेणोदाह्रियते। यथा- शिरीषादपि मृद्वङ्गी क्वेयमायतलोचना । अयं क्व च कुकूलाग्निकर्कशो मदनानलः ॥'


१. ‘अत्यर्थ’ क. २. ‘संघट्टनात् ख. ३. अननुरूपेत्यादि ख-युस्तके नास्ति, ४. ‘पल्लवयति’ ख. ५. ‘घट्टनं’ ख.


१. ‘रूपत्वात्ख. २. विषयानांख. ३. ‘घटना’ ख.