पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१३७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३३
अलङ्कारसर्वस्वम्



यन्निम्बानां परिणतफलस्फातिरास्वादनीया
यचैतस्याः कवलनकलाकोविदः काकलोकः ॥'


अत्रानभिरूपाणां निम्बानां काकानां च समागम आशंसितः। आनु- रूप्यात्समत्वव्यपदेशः ।

विरोधमूलं विचित्रं लक्षयति--

स्वविपरीतफलनिष्पत्तये प्रयत्नो विचित्रम् ।

यस्य हेतोर्यत्फलं तस्य यदा तद्विपरीतं भवति तदा तद्विपरीतफलनि- ष्पत्त्यर्थं कस्यचित्प्रयत्न उत्साहो विचित्रालंकारः । आश्चर्यप्रतीतिहेतु- त्वात् । न चायं प्रथमो विषमालंकारप्रकारः । स्वनिषेधमुखेन वैपरीत्य- प्रतीतेः । विपरीतप्रतीत्या तु स्वनिषेधस्तस्य विषयः । यथा —‘तमालनीला शरदिन्दुपाण्डु यशस्रिलोकाभरणं प्रसूते इत्यादि । इह त्वन्यथा प्र- तीतिः । यथा

‘घेत्तुं मुच्चइ अहरे अण्णन्तो वलइ पेक्खिउं दिठ्ठी ।
घडिदुं विहडन्ति भुआ रआअ सरअम्भि वीसामो ॥


अत्र मोचनवलनविघटनविश्रमाणां यथाक्रमं ग्रहणप्रेक्षणघटनरमणानि विपरीतफलानि प्रयत्नविषयत्वेन निबद्धानि । यथा वा


पविषयः । द्वितीय इत्यनभिरूपविषयः । आनुरूप्यादित्यौचित्यलक्षणात् । स्वविपरीते- त्यादि । एतदेव व्याचष्टे--यस्येत्यादिना । यदिति प्रसिद्धम् । फलमिति कार्यम् । तस्येति हेतोः । तदिति कार्यम् । प्रयत्नस्य कार्याविभेदेऽपि न वैचित्र्यमिति तदिह नो- क्तम् । एवं यस्य यत्कार्यं तस्य तावत्तद्विपरीतं न भवति । यदि च तत्वं स्यात्तन्निष्पत्त्यर्थं च यदि कस्यचित्प्रयत्नः स्यात्तदायमलंकार इत्यत्र तात्पर्यम् । ननु चैतद्विरूपकार्योत्पत्तेः किं न विषममेव भवतीत्याशङ्कयाह-न चायमित्यादि । तस्येति विषमस्य । नीलयापि पाण्डु यशःप्रसूतमिति विपरीतप्रतीतिबलादेतन्नोपपद्यत इति ह्यत्र प्रतीतिः । अन्यथेति निषेधवलाद्वैपरीत्यप्रयत्न इति । यद्यपि विषमे विरूपस्य कार्यस्य स्वयमेवोत्पत्तिरिह च


१. ‘अनुरूपस्वात्' क-ख. २. ‘तय' क-पुस्तकें नास्ति३. ‘तदा विचित्रालंकारः क. ४. ‘मरणानि' ख.


१. ‘थस्यैति’ क . २. 'विपरीतप्रतीतेः । यद्यपि विषमे विरूपस्स’ ख. ३. ‘यद्यपि-त - निष्पत्तथै’ इति क-पुस्तके नास्ति.